SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) विमो०८ उद्देशक ॥२८५॥ SANSAR तु द्विधा-जलपत्तनं स्थलपत्तनं च, जलपत्तनं यथा काननद्वीपः, स्थलपत्तनं यथा मथुरा, 'द्रोणमुर्ख' जलस्थलनिर्गमप्रवेशं यथा भरुकच्छं तामलिप्ती वा, आकरो' हिरण्याकरादिः, 'आश्रमः' तापसावसथोपलक्षित आश्रयः, 'सन्निवेशः' यात्रासमागतजनावासो जनसमागमो वा 'नैगमः' प्रभूततरणिग्वर्गावासः 'राजधानी' राजाधिष्ठानं राज्ञः पीठिकास्थानमित्यर्थः, एतेष्वेतानि वा प्रविश्य तृणानि याचेत, ततः किमित्याह-संस्तारकाय प्रासुकानि दर्भवीरणादिकानि कचिद्रामादौ तृणस्वामिनमशुषिराणि तृणानि याचित्वा स तान्यादायकान्ते-गिरिगुहादावपक्रामेद्-गच्छेदेकान्तं-रहोऽपक्रम्य च प्रासुकं महास्थण्डिलं प्रत्युपेक्षते, किम्भूतं तदर्शयति-अल्पान्यण्डानि कीटिकादीनां यत्र तदल्पाण्डं तस्मिन् , अल्पशब्दोऽत्राभावे वर्तते, अण्डकरहित इत्यर्थः, तथाऽल्पाः प्राणिनो-द्वीन्द्रियादयो यस्मिन् तत्तथा, सथा अल्पानि बीजानि नीवारश्यामाकादीनां यत्र तत्तथा, तथा अल्पानि हरितानि-दूर्वाप्रवालादीनि यत्र तत्तथा, तथाऽल्पावश्याये-अधस्तनोपरितनावश्यायविपुड्वर्जिते, तथाऽल्पोदके-भौमान्तरिक्षोदकरहिते, तथोत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानरहिते, तत्रोत्तिड्गः-पिपी|लिकासन्तानकः पनको-भूम्यादावुल्लिविशेषः । उदकमृत्तिका-अचिराप्कायाद्रींकृता मृत्तिका मर्कटसन्तानको-लूतातन्तु जालं, तदेवम्भूते महास्थण्डिले तृणानि संस्तरेत् , किं कृत्वा?-सत् स्थण्डिल चक्षुषा प्रत्युपेक्ष्य २, बीप्सया भृशभावमाह, द एवं रजोहरणादिना प्रमृज्य २, अत्रापि वीप्सया भृशार्थता सूचिता, संस्तीर्य च तृणान्युच्चारप्रस्रवणभूमिं च प्रत्युपेक्ष्य पूर्वा भिमुखसंस्तारकगतः करतलललाटसर्शिधृतरजोहरणः कृतसिद्धनमस्कारः आवर्तितपश्चनमस्कारोऽत्रापि समये अपिशब्दादन्यत्र वा समये 'इत्वर'मिति पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुनरित्वरं ॥ २८५॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy