________________
द्वयार्थः॥ एवमन्तरोक्तया नीत्या दर्शनवतः सफलानि तपोज्ञानचरणान्यभिहितानि, यदि पुनः केनचिदुपाधिना विदधाति ततः सफलत्वाभावः, कश्चासावुपाधिस्तमाह
आहारउवहिपूआ इड्डीसु य गारवेसु कइतवियं । एमेव बारसविहे तवंमि न हु कइतवे समणो॥ २२५ ॥
आहारश्च उपधिश्च पूजा च ऋद्धिश्च-आमाँषध्यादिका आहारोपधिपूजर्द्धयस्तासु निमित्तभूतासु ज्ञानचरणक्रियां 3 करोति, तथा गारवेषु त्रिषु प्रतिवद्धो यत्करोति तत्कृत्रिममित्युच्यते, यथां च ज्ञानचरणयोसहाराद्यर्थमनुष्ठानं कृत्रिम
सन्न फलवद्भवति एवं सबाह्याभ्यन्तरे द्वादशप्रकारे तपस्यपीति, न च कृत्रिमानुष्ठायिनः श्रमणभावो, न चाश्रमणस्यानुष्ठानं गुणवदिति, तदेवं निरुपधेर्दर्शनवतस्तपोज्ञानचरणानि सफलानीति स्थितमतो दर्शने यतितव्यं, दर्शनं च तत्त्वार्थश्रद्धानं, तत्त्वं चोत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानैस्तीर्थकृद्भिर्यदभाषि, तदेव सूत्रानुगमायातेन सूत्रेण दर्शयति
से बेमि जे अईया जे य पडुपन्ना जे य आगमिस्सा अरहंता भगवंतो ते सव्वे एवमाइक्खन्ति एवं भासंति एवं पण्णविंति एवं परूविंति-सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा न अजावेयव्वा न परिचित्तव्वा न परियावयव्वा न उद्दवेयव्वा, एस धम्मे सुद्धे निइए सासए समिञ्च लोयं खेयण्णेहिं पवेइए, तंजहा-उट्ठिएसु वा अणुट्ठिएसु