________________
कालादिज्ञो भिक्षुः [श्रु०१। अ०२। उ०५। सू०८८] से ण किणे इत्यादि । स मुमुक्षुः अकिञ्चनो धर्मोपकरणमपि न क्रीणीयात् स्वतः, नापि अपरेण क्रापयेत्, क्रीणन्तमपि न समनुजानीयात् । अथवा निरामगन्धः परिव्रजेद् इत्यत्र आमग्रहणेन हननकोटित्रिकम्, गन्धग्रहणेन पचनकोटित्रिकम्, क्रयणकोटित्रिकं तु पुनः स्वरूपेणैव उपात्तम्; अतो नवकोटीपरिशुद्ध आहारं विगताङ्गार-धूमं भुञ्जीत । एतद्गुणविशिष्टश्च किम्भूतो भवति ? इत्याह
से भिक्खू कालण्णे बालण्णे मातण्णे खेयण्णे खणयण्णे विणयण्णे समयण्णे भावण्णे परिग्गहं अममायमाणे कालेणुट्ठाई अपडिण्णे । दुहतो छित्ता णियाइ ॥४८॥
से भिक्खू कालन्ने । कालः कर्तव्यावसरः, तं जानातीति कालज्ञः विदितवेद्यः; तथा 'बोलण्णे' बलं जानातीति बलज्ञः, छान्दसत्वाद् दीर्घत्वम्, आत्मबलं सामर्थ्य जानातीति यथाशक्त्यनुष्ठानविधायी, अनिगूहितबलवीर्य इत्यर्थः; तथा 'मायन्ने' यावद्रव्योपयोगिता-मात्रा, तां जानातीति तज्ज्ञः; तथा खेदन्ने खेदः=अभ्यासः, तेन जानातीति खेदज्ञः, अथवा खेद:= श्रमः संसारपर्यटनजनितः, तं जानातीति । उक्तं च
"जरा-मरण-दौर्गत्य-व्याधयस्तावदासताम् ।
मन्ये जन्मैव धीरस्य भूयो भूयस्त्रपाकरम् ॥" [ ] इत्यादि । अथवा क्षेत्रज्ञः-संसक्त-विरुद्धद्रव्य-परिहार्यकुलादिक्षेत्रस्वरूपपरिच्छेदकः; तथा . 'खणयन्ने' क्षण एव क्षणकः अवसरो भिक्षार्थं उपसर्पणादिकः, तं जानातीति; तथा 'विणयन्ने' विनयः ज्ञान-दर्शन-चारित्रौपचारिकरूपः, तं जानातीति; तथा समयन्ने स्वसमय-परसमयौ जानातीति । स्वसमयज्ञो गोचरप्रदेशादौ पृष्टः सन् सुखेनैवे भिक्षादोषान् आचष्टे, तद्यथा-षोडशोद्गमदोषाः; ते चामी-आधाकर्म १, औद्देशिकं २, पूतिकर्म ३, मिश्रजातं ४, स्थापना ५, प्राभृतिका ६, प्रकाशकरणं ७, क्रीतं ८, उद्यतकं ९, परिवर्तितं १०, अभ्याहृतं ११, उद्भिन्नं १२, मालापहृतं १३, आच्छेद्यं १४, अनिसृष्टं १५, अध्यवपूरकश्चेति १६ । षोडशोत्पादनदोषाः; ते चामी-धात्रीपिण्ड: १, दूतीपिण्ड: २, निमित्तपिण्ड: ३, आजीवपिण्ड: ४, वनीपकपिण्ड: ५, चिकित्सापिण्ड: ६, क्रोधपिण्ड: ७,
टि० १. ०णविशिष्टस्तु क ग ॥ २. बलण्णे ख । बालज्ञो बलं च ॥ ३. वीरस्य ख च ॥ ४. ०चारित्ररूपस्तं क ॥ ५. स्वसमयं जानातीति स्वसमयज्ञो गोचर० च ॥ ६. ०व जानाति भिक्षा० ख ।। ७. मालाभ्यहृतं ग ॥ ८. वनीमकपिण्डः ख च ॥
२४३