________________
[श्रु०१। अ०३। उ०४। सू०१३०] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
दर्शयितुमाह
नत्थि इत्यादि । नास्ति न विद्यते, किं तद् ? अशस्त्रं-संयमः, तत् परेण परम् ? इति प्रकर्षगत्यापन्नमिति । तथा हि- पृथिव्यादीनां सर्वत्र तुल्यता कार्या, ने तीव्र-मन्दभेदोऽस्ति, पृथिव्यादिषु समभावत्वात् सामायिकस्य । अथवा शैलेश्यवस्थासंयमादपि पेरः । संयमो नास्ति, तदूर्ध्वं गुणस्थानाभावादिति भावः ॥१२९॥
यो हि क्रोधं उपादानतो बन्धनतः स्थितितो विपाकतोऽनन्तानुबन्धिलक्षणतः क्षयमाश्रित्य प्रत्याख्यानपरिज्ञया जानाति सोऽपरमानादिदर्शी अपि इति एतदेव प्रतिसूत्रं लगयितव्यं इत्याह[सू०] जे कोहदंसी से माणदंसी, जे माणदंसी से मायदंसी, जे मायदंसी से लोभदंसी, जे लोभदंसी से पेज्जदंसी, जे पेज्जदंसी से दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गब्भदंसी, जे गब्भदंसी से जम्मदंसी, जे जम्मदंसी से मारदंसी, जे मारदंसी से णिरयदंसी, जे णिरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी।
जे कोहदंसीत्यादि । यो हि क्रोधं स्वरूपतो वेत्ति, अनर्थपरित्यागरूपत्वाद् ज्ञानस्य परिहरति च; स मानमपि पश्यति परिहरति च इति । यदि वा यः क्रोधं पश्यति आचरति; स मानमपि पश्यति, मानाध्मातो भवतीत्यर्थः । एवं उत्तरत्रापि आयोज्यं यावत् स दुःखदर्शीति, सुगमत्वाद् न विव्रियते । साम्प्रतं क्रोधादेः साक्षाद् निवर्तनमाह
से मेहावी अभिणिवटेज्जा कोधं च माणं च मायं च लोभं च पेज्जं च दोसं च मोहं च गब्भं च जम्मं च मारं च णरगं च तिरियं च दुक्खं च ।
से इत्यादि । स मेधावी अभिनिवर्तयेत् व्यावर्तयेत्, किं तत् ? क्रोधं इत्यादि यावद् दुःखम्, सुगमत्वाद् व्याख्यानाऽभावः । स्वमनीषिकापरिहारार्थमाह
एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं निसिद्धा सगडब्भि ॥१३०॥
एयमित्यादि । एतत् अनन्तरोक्तं उद्देशकादेः वा आरभ्य पश्यकस्य तीर्थकृतः दर्शनम्= अभिप्रायः, किम्भूतस्य ? उपरतशस्त्रस्य पर्यन्तकृतः । पुनरपि किम्भूतोऽसौ ?
टि० १. न मन्दतीव्र-भेदोऽस्तीति ग ऋते ॥ २. परं क ॥ ३. ०रूपादु घ ।
३१८