Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 443
________________ शास्त्रान्तरैः सह तुलना लब्ब्युपयोगौ भावेन्द्रियम् ॥ १८ ॥ लम्भनं लब्धिः । का पुनरसौ ? ज्ञानावरणकर्मक्षयोपशमविशेषः । यत्संनिधानादात्मा द्रव्येन्द्रियनिर्वृत्ति प्रति व्याप्रियते तन्निमित्त आत्मनः परिणाम उपयोगः । तदुभये भावेन्द्रियम् । -तत्त्वार्थसर्वार्थसिद्धौ । निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ निर्वर्त्यते इति निर्वृत्तिः, सा द्वेधा बाह्याभ्यंतरभेदात् । तत्र विशुद्धात्मप्रदेशवृत्तिरभ्यंतरा तस्यामेव कर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयो ब्राह्या । उपक्रियतेऽनेनेत्युपकरणं । तदपि द्विविधं ब्राह्याभ्यंतरभेदात् । तत्र बाह्यं पक्षपुटादि, कृष्णसारमंडलाद्यभ्यंतरं ।....... कानि पुनर्भावेंद्रियाणीत्याह; ___ लब्ध्युपयोगौ भावेन्द्रियम् ॥ १८ ॥ _इंद्रियनिर्वृत्तिहेतुः क्षयोपशमविशेषो लब्धिः तन्निमित्तः परिणामविशेष उपयोगः लब्धिश्चोपयोगश्च लब्ध्यपयोगौ भावेंद्रियमिति जात्यपेक्षयैकवचनं । - -तत्त्वार्थश्लोकवार्त्तिके । निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ निर्वर्त्यत इति निर्वृत्तिः ।१। कर्मणा या निर्वर्त्यत निष्पाद्यते सा निर्वृत्तिरित्युपदिश्यते । सा द्वेधा बाह्याभ्यंतरभेदात् ।२। सा निर्वृत्तिर्द्वधा । कुतः ? बाह्याभ्यंतरभेदात् । तत्र विशुद्धात्मप्रदेशवृत्तिरभ्यंतरा ।३। उत्सेधाालस्याऽसंख्येयभागप्रमितानां विशुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानमानवमानावस्थितानां वृत्तिराभ्यन्तरा निर्वृत्तिः । तत्र नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयो बाह्या ।।। तेष्वात्मप्रदेशेष्विन्द्रियव्यपदेशभाक् यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पदलप्रचयः स बाह्या निर्वत्तिः । उपक्रियतेऽनेनेत्युपकरणं ५। येन निर्वृत्तिरुपकारः क्रियते तदुपकरणम् । तद् द्विविधं पूर्ववत् ।६। तदुपकरणं द्विविधं पूर्ववत् बाह्याभ्यंतरभेदात् । तत्राभ्यन्तरं शुक्लकृष्णमण्डलम्, बाह्यमक्षिपत्रपक्ष्मद्वयादि । एवं शेषेष्वपीन्द्रियेष ज्ञेयम । भावेन्द्रियमुच्यते लब्ध्युपयोगौ भावेन्द्रियम् ॥ १८ ॥ लब्धिरिति कोऽयं शब्दः ? लाभो लब्धिः । यद्येवं षित्वादप्राप्नोति; "अनुबन्धकृतमनित्यम्"[ ]इति न भवति यथा “वर्णानुपलब्धौ चातदर्थगतैः" [पात० महा०प्रत्याहा०५] इत्येवमादिषु । अथवा "स्त्रियां क्तिः, लभादिभ्यश्च"[श०च०२।३।८०,८१] इति क्तिर्भवति, इष्टाश्चाबादयः इति । अथ कोऽस्यार्थः ? इन्द्रियनिर्वृत्तिहेतुः क्षयोपशमविशेषो लब्धिः ।१। यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते स ज्ञानावरणक्षयोपशमविशेषो लब्धिरिति विज्ञायते । तन्निमित्तः परिणामविशेष उपयोगः ।। तदुक्तं निमित्तं प्रतीत्य उत्पद्यमान आत्मनः परिणाम उपयोग इत्युपदिश्यते । तदेतदुभयं भावेन्द्रियमिति । -तत्त्वार्थराजवार्त्तिके ॥

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496