Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 441
________________ शास्त्रान्तरैः सह तुलना इतिशब्द एवशब्दार्थः, एवमेषोऽर्थः प्रवचविद्भिराख्यात इति । सम्प्रत्युपकरणेन्द्रियस्वरूपमाख्यातुमाह उपकरणं बाह्यमभ्यन्तरं च निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारीति । निर्वृत्तौ सत्यां कृपाणस्थानीयायामुपकरणेन्द्रियमवश्यमपेक्षितव्यम्, तच्च स्वविषयग्रहणशक्तियुक्तं खड्गस्येव धारा छेदनसमर्था तच्छक्तिरूपमिन्द्रियान्तरं निर्वृत्तौ सत्यपि शक्त्युपघातैविषयं न गृह्णाति तस्मान्निर्वृत्तेः श्रवणादिसंज्ञके द्रव्येन्द्रिये तद्भावादात्मनोऽनुपघातानुग्रहाभ्यां यदुपकारि तदुपकरणेन्द्रियं भवति, तच्च बहिर्वति अन्तर्वति च, निर्वृत्तिद्रव्येन्द्रियापेक्षयाऽस्यापि द्वैविध्यमावेद्यते । तत्र निर्वृत्तिद्रव्येन्द्रियं तत्रोपकरणेन्द्रियमपि न भिन्नदेशवर्ति तस्येति कथयति तस्याः स्वविषयग्रहणशक्तेर्निर्वृत्तिमध्यवर्तिनीत्वात् । एतदेव स्फुटयति-निर्वतितस्यनिष्पादितस्य स्वावयवविभागेन यदनुपहत्यात अनुग्रहे चोपकरोति ग्रहणमात्मनः स्वच्छतरपुद्गलजालनिर्मापितं तदुपकरणेन्द्रियमध्यवस्यन्ति विद्वांसः, आगमे तु नास्ति कश्चिदन्तर्बहिर्भेद उपकरणस्येत्याचार्यस्यैव कुतोऽपि सम्प्रदाय इति । एवमेतदुभयं द्रव्येन्द्रियमभिधीयते तद्भावेऽप्यग्रहणात् उपकरणत्वान्निमित्तत्वाच्चेति । निर्वत्तेरादावभिधा जन्मक्रमप्रतिपादनार्थं तद्भावे ह्युपकरणसद्भावाच्छस्त्रशक्तिवदिति ॥१७॥ अथ भावेन्द्रियं किमित्यत्रोच्यतेलब्ध्युपयोगौ भावेन्द्रियम् ॥ १८ ॥ लब्ध्युपयोगौ भावेन्द्रियम् । लब्धिः प्रतिस्वमिन्द्रियावरणकर्मक्षयोपशमः, स्वविषयव्यापारः प्रणिधानं वीर्यमुपयोगः, एतदुभयं भावेन्द्रियमात्मपरिणतिलक्षणं भवति । अत्राचार्यो लब्धिस्वरुपनिर्वर्णनायाहलब्धिर्नामेत्यादि भाष्यम् । लाभो लब्धिः प्राप्तिः । नामशब्दो वाक्यालङ्कारार्थः । अथवा लब्धिरिति यदेतन्नामाभिधानं तस्यायमर्थः गतिजात्यादिनामकर्मजनिता लब्धिरुच्यते । गतिजाती आदिर्यस्य तद् गतिजात्यादि, गतिजात्यादि च तन्नामकर्म च गतिजात्यादिनामकर्म, तेन जनिता-निर्वतिता, मनुष्यगतिनामोदयान्मनुष्यस्तथा पञ्चेन्द्रियजातिनामोदयात् पञ्चेन्द्रिय इत्यतो मनुष्यत्वपञ्चेन्द्रियत्वादिलाभे प्रतिस्वं तदावरणकर्मक्षयोपशमो निर्वय॑ते, तस्य क्षयोपशमस्य गतिजातिप्रभृतिनामकर्मकारणत्वानिर्दिष्टमाचार्येण । आदिग्रहणेन यत् तदत्र नान्तरीयकं शरीरादिक्षयोपशमलब्धेर्नामान्त:पाति तत् सकलमादीयते । अपरे त्वायुष्कमपि तदाश्रयत्वात् कारणमाचक्षते क्षयोपशमस्य, एवं विदूरवति कारणमपदिश्याधुना प्रत्यासन्नतरकारणान्तरमाविष्करोतितदावरणीयकर्मक्षयोपशमजनिता चेति । तस्याः खलु रूपादिग्रहणपरिणतेरावरणीयमावारकमाच्छादकं, बाहलकात् कर्तरि व्यत्पत्तिः, तदावरणीयं च तत् कर्म च तदावरणीयकर्म, मतिज्ञानदर्शनावरणकर्मेत्यर्थः, तस्योभयस्य क्षयोपशमोऽभिहितलक्षणस्तज्जनिता च तन्निष्पादिता चेत्यर्थः । चशब्दः पूर्वकं कारणं समुच्चिनोति ॥ ननु च क्षयोपशम एव लब्धिरुक्ता तेन जनितान्या का भवेल्लब्धिः ? । उच्यते-मतिज्ञानदर्शनावरणक्षयोपशमावस्थानिवृत्तौ यो ज्ञानसद्भावः क्षायोपशमिकः सोऽत्र लब्धिरुच्यते, कथं कृत्वोक्तं प्राक् क्षयोपशमो लब्धिरिति कारणे कार्योपचारमालम्ब्य नडवलोदकं पादरोगवदित्यभिहितमतो न दोषाय । अ अन्तरायकर्मक्षयोपशमापेक्षा इन्द्रियविषयोपभोगज्ञानशक्तिलब्धिरुच्यते । पुनः प्रत्यासन्नतमकारणनिर्दिदिक्षया भाष्यकृत प्रतन्ते ग्रन्थम-इन्द्रियाश्रयकर्मोदयानिर्वत्ता च जीवस्य भवतीति । इन्द्रियाण्याश्रयोऽवकाशो येषां कर्मणां तानीन्द्रियाश्रयाणि कर्माणि यावन्ति कानिचिन्निर्मार्णाङ्गोपाङ्गादीनि यैविना तानि न निष्पद्यन्ते तदुदयेनतद्विपाकेन निर्वृत्ता-जनितात्मनो लब्धिरुद्भवति, स्वच्छे हि दपर्णतले प्रतिबिम्बोदयो भवति, न मलीमसे, तथा निर्माणाङ्गोपाङ्गदिभिरत्यन्तविमलतद्योग्यपुद्गलद्रव्यनिर्मापितानीन्द्रियाणि तस्याः क्षयोपशमलब्धेरतुलं बलमुपयच्छन्ति, कारणतां बिभ्रतीति । सैषा लब्धिः कारणत्रयापेक्षा पञ्चप्रकारा भवति । उक्ता लब्धिः, अधुनोपयोग उच्यते-यदि लब्धिनिर्वृत्त्युपकरणक्रमेणोपयोगस्ततोऽतीन्द्रियोपयोगाभावो २७

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496