________________
शास्त्रान्तरैः सह तुलना
इतिशब्द एवशब्दार्थः, एवमेषोऽर्थः प्रवचविद्भिराख्यात इति । सम्प्रत्युपकरणेन्द्रियस्वरूपमाख्यातुमाह
उपकरणं बाह्यमभ्यन्तरं च निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारीति । निर्वृत्तौ सत्यां कृपाणस्थानीयायामुपकरणेन्द्रियमवश्यमपेक्षितव्यम्, तच्च स्वविषयग्रहणशक्तियुक्तं खड्गस्येव धारा छेदनसमर्था तच्छक्तिरूपमिन्द्रियान्तरं निर्वृत्तौ सत्यपि शक्त्युपघातैविषयं न गृह्णाति तस्मान्निर्वृत्तेः श्रवणादिसंज्ञके द्रव्येन्द्रिये तद्भावादात्मनोऽनुपघातानुग्रहाभ्यां यदुपकारि तदुपकरणेन्द्रियं भवति, तच्च बहिर्वति अन्तर्वति च, निर्वृत्तिद्रव्येन्द्रियापेक्षयाऽस्यापि द्वैविध्यमावेद्यते । तत्र निर्वृत्तिद्रव्येन्द्रियं तत्रोपकरणेन्द्रियमपि न भिन्नदेशवर्ति तस्येति कथयति तस्याः स्वविषयग्रहणशक्तेर्निर्वृत्तिमध्यवर्तिनीत्वात् । एतदेव स्फुटयति-निर्वतितस्यनिष्पादितस्य स्वावयवविभागेन यदनुपहत्यात अनुग्रहे चोपकरोति ग्रहणमात्मनः स्वच्छतरपुद्गलजालनिर्मापितं तदुपकरणेन्द्रियमध्यवस्यन्ति विद्वांसः, आगमे तु नास्ति कश्चिदन्तर्बहिर्भेद उपकरणस्येत्याचार्यस्यैव कुतोऽपि सम्प्रदाय इति । एवमेतदुभयं द्रव्येन्द्रियमभिधीयते तद्भावेऽप्यग्रहणात् उपकरणत्वान्निमित्तत्वाच्चेति । निर्वत्तेरादावभिधा जन्मक्रमप्रतिपादनार्थं तद्भावे ह्युपकरणसद्भावाच्छस्त्रशक्तिवदिति ॥१७॥
अथ भावेन्द्रियं किमित्यत्रोच्यतेलब्ध्युपयोगौ भावेन्द्रियम् ॥ १८ ॥
लब्ध्युपयोगौ भावेन्द्रियम् । लब्धिः प्रतिस्वमिन्द्रियावरणकर्मक्षयोपशमः, स्वविषयव्यापारः प्रणिधानं वीर्यमुपयोगः, एतदुभयं भावेन्द्रियमात्मपरिणतिलक्षणं भवति । अत्राचार्यो लब्धिस्वरुपनिर्वर्णनायाहलब्धिर्नामेत्यादि भाष्यम् । लाभो लब्धिः प्राप्तिः । नामशब्दो वाक्यालङ्कारार्थः । अथवा लब्धिरिति यदेतन्नामाभिधानं तस्यायमर्थः गतिजात्यादिनामकर्मजनिता लब्धिरुच्यते । गतिजाती आदिर्यस्य तद् गतिजात्यादि, गतिजात्यादि च तन्नामकर्म च गतिजात्यादिनामकर्म, तेन जनिता-निर्वतिता, मनुष्यगतिनामोदयान्मनुष्यस्तथा पञ्चेन्द्रियजातिनामोदयात् पञ्चेन्द्रिय इत्यतो मनुष्यत्वपञ्चेन्द्रियत्वादिलाभे प्रतिस्वं तदावरणकर्मक्षयोपशमो निर्वय॑ते, तस्य क्षयोपशमस्य गतिजातिप्रभृतिनामकर्मकारणत्वानिर्दिष्टमाचार्येण । आदिग्रहणेन यत् तदत्र नान्तरीयकं शरीरादिक्षयोपशमलब्धेर्नामान्त:पाति तत् सकलमादीयते । अपरे त्वायुष्कमपि तदाश्रयत्वात् कारणमाचक्षते क्षयोपशमस्य, एवं विदूरवति कारणमपदिश्याधुना प्रत्यासन्नतरकारणान्तरमाविष्करोतितदावरणीयकर्मक्षयोपशमजनिता चेति । तस्याः खलु रूपादिग्रहणपरिणतेरावरणीयमावारकमाच्छादकं, बाहलकात् कर्तरि व्यत्पत्तिः, तदावरणीयं च तत् कर्म च तदावरणीयकर्म, मतिज्ञानदर्शनावरणकर्मेत्यर्थः, तस्योभयस्य क्षयोपशमोऽभिहितलक्षणस्तज्जनिता च तन्निष्पादिता चेत्यर्थः । चशब्दः पूर्वकं कारणं समुच्चिनोति ॥
ननु च क्षयोपशम एव लब्धिरुक्ता तेन जनितान्या का भवेल्लब्धिः ? । उच्यते-मतिज्ञानदर्शनावरणक्षयोपशमावस्थानिवृत्तौ यो ज्ञानसद्भावः क्षायोपशमिकः सोऽत्र लब्धिरुच्यते, कथं कृत्वोक्तं प्राक् क्षयोपशमो लब्धिरिति कारणे कार्योपचारमालम्ब्य नडवलोदकं पादरोगवदित्यभिहितमतो न दोषाय । अ अन्तरायकर्मक्षयोपशमापेक्षा इन्द्रियविषयोपभोगज्ञानशक्तिलब्धिरुच्यते । पुनः प्रत्यासन्नतमकारणनिर्दिदिक्षया भाष्यकृत प्रतन्ते ग्रन्थम-इन्द्रियाश्रयकर्मोदयानिर्वत्ता च जीवस्य भवतीति । इन्द्रियाण्याश्रयोऽवकाशो येषां कर्मणां तानीन्द्रियाश्रयाणि कर्माणि यावन्ति कानिचिन्निर्मार्णाङ्गोपाङ्गादीनि यैविना तानि न निष्पद्यन्ते तदुदयेनतद्विपाकेन निर्वृत्ता-जनितात्मनो लब्धिरुद्भवति, स्वच्छे हि दपर्णतले प्रतिबिम्बोदयो भवति, न मलीमसे, तथा निर्माणाङ्गोपाङ्गदिभिरत्यन्तविमलतद्योग्यपुद्गलद्रव्यनिर्मापितानीन्द्रियाणि तस्याः क्षयोपशमलब्धेरतुलं बलमुपयच्छन्ति, कारणतां बिभ्रतीति । सैषा लब्धिः कारणत्रयापेक्षा पञ्चप्रकारा भवति ।
उक्ता लब्धिः, अधुनोपयोग उच्यते-यदि लब्धिनिर्वृत्त्युपकरणक्रमेणोपयोगस्ततोऽतीन्द्रियोपयोगाभावो
२७