________________
तृतीयं परिशिष्टम्
निर्वृत्त्याद्यपेक्षाभावात् । एतदुक्तं भवति-अवध्यादीनामतीन्द्रियत्वादत्यन्ताभाव एव विशेषो वाच्यः ? । उच्यते-न खलु सर्व उपयोगो लब्धिनिर्वृत्त्युपकरणेन्द्रियकृतः, किं तर्हि स एवैकस्त्रितयनिमित्त इत्यत आह
उपयोग: स्पर्शादिषु ॥ १९ ॥
उपयोगः स्पर्शादिषु । स्पर्शरसगन्धवर्णशब्देषु ग्रहणरूपो व्यापार उपयोगो गृह्यते स्पर्शनेन्द्रियादिनिमित्तो नावध्याद्यपयोगः । अममेवार्थं स्पष्टयन भाष्यकदाह-स्पर्शादिष मतिज्ञानोपयोग इत्य स्पर्शादिविषयो मतिज्ञानव्यापारः प्रतिनियतविषयानुभवनमुपलम्भनमिति, अनेन शेषज्ञानव्युदासमादर्शयति मतिज्ञानोपयोग एव लब्धिनिर्वृत्त्युपकरणापेक्षः प्रवर्तते न शेष इति । अत्रोपयोगसामान्यमित्यपढ्तावधानश्चोदयति -स्पर्शादिविषयो य उपयोगपरिसमाप्तिव्यापार इत्युक्तम् । एतच्च परमाणुद्वयणुकादिष्वपि दृष्टम्, परमाणुरपि हि सर्वात्मनोपयुज्यते द्वयणुकादिस्कन्धपरिणामे, ततश्च सोऽप्युपयोगलक्षणं प्राप्नोतीत्यत आह भाष्यकार: -उक्तमेतदुपयोगो लक्षणमिति । अथवा भाष्यकार: स्वयमेवोपयोगविशेषव्याख्यामातितनिषुराह-उक्तमेतदित्यादि । अभिहितमेतदुपयोगश्चैतन्यपरिणामो जीवस्य वैशेषिकं लक्षणं कः परमाण्वादिष्वेव प्रसङ्गोऽत्यन्तासम्बन्ध एव । तमेवोपयोगं पर्यायतः कथयति चैतन्यलक्षणं विशेषव्याख्यानदर्शनद्वारेण उपयोग इत्यादि । उपयोगस्तु द्विविधा चेतना-संविज्ञानलक्षणा, अनुभवनलक्षणा च, तत्र घटाधुपलब्धिः संविज्ञानलक्षणा, सुखदुःखादिसंवेदनानुभवनलक्षणा एतदुभयमुपयोगग्रहणाद् गृह्यते । प्रणिधानमवहितमनस्कत्वम्, एतदुत्कीर्तयति-स्पष्टो हि मतिज्ञानोपयोगो मानसोपयोगावश्यम्भावी द्रव्येन्द्रियाद्यपेक्षश्च नावध्याधुपयोगस्तथेति आयोग इति । स्वविषयमर्यादया स्पर्शादिभेदनिर्भासो ज्ञानोदय: स्पर्शनेन्द्रियादिजन्माभिधीयते तद्भाव इति । उपयोगलाञ्छनो जन्तुस्तच्छब्देनामृश्यते तस्य भावः स्पर्शनादिद्वारजन्मज्ञानमात्मनो भूतिरुद्भव इति यावत्, परिणामोऽप्यात्मन एव तद्भावलक्षणो नार्थान्तरप्रादुर्भावलक्षणः, स्पर्शनादिनिमित्तज्ञानस्यात्मपरिणरूपत्वादित्यर्थः ।।
सम्प्रति प्रवृत्तौ क्रमनियममापादयन्नाह-एषामित्यादि भाष्यम् । एषामिति व्याख्यातस्वरूपाणां निर्वृत्त्युपकरणलब्ध्युपयोगेन्द्रियाणामायं प्रवृत्तिक्रमो यदुत निर्वृत्तिः प्राक् तस्यां सत्यामुपकरणमुपयोगश्च भवति
प्रयत्वादपकरणस्य तदद्वारजन्मत्वाच्चोपयोगस्य । एतच्च निर्वत्त्यादित्रयं लब्धीन्द्रियपूर्वकं दर्शयतिश्रोत्रादिक्षयोपशमलब्धौ सत्यां निर्वृत्तिं शष्कुल्यादिका भवति, यस्य तु लब्धिर्नास्त्येवंप्रकारा न खलु तस्य प्राणिनः शष्कुल्यादयोऽवयवा निवर्तन्ते तस्माल्लब्ध्यादयश्चत्वारोऽपि समुदिताः शब्दादिविषयपरिच्छेदमापादयन्त इन्द्रियव्यपदेशमश्नुवते । एकेनाप्यवयवेन विकलमिन्द्रयं नोच्यते, न च स्वविषयग्रहणसमर्थ भवति, अमुमर्थ भाष्येण दर्शयति–निर्वृत्त्यादीनामिति सूत्रोपन्यस्तक्रममङ्गीकृत्योच्यते निर्वृत्त्युपकरणलब्ध्युपयोगानामन्यतमाभावे एकेनाप्यङ्गेन विकले सति समुदाये न जातुचित् शब्दादिविषयस्वरूपावबोधो भवत्यात्मनः, विकलकरणत्वात् ।
-तत्त्वार्थसिद्धसेनीयवृत्तौ । निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ निर्वर्त्यते इति निर्वृत्तिः । केन निर्वय॑ते ? कर्मणा । सा द्विविधा; बाह्याभ्यन्तरभेदात् । उत्सेधाङ्गुलासंख्येयभागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थितानां वृत्तिराभ्यान्तरा निर्वृत्तिः । तेष्वात्मप्रदेशेष्वन्द्रियव्यपदेशभाक्षु यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः सा बाह्या निर्वृत्तिः । येन निर्वृत्तेरुपकारः क्रियते तदुपकरणम् । पूर्ववत्तदपि द्विविधम् । तत्राभ्यन्तरं कृष्णशुक्लमण्डलं, बाह्यमक्षिपत्रपक्ष्मद्वयादि । एवं शेषेष्वपीन्द्रियेषु ज्ञेयम् ।
भावेन्द्रियमुच्यते