________________
शास्त्रान्तरैः सह तुलना
लब्ब्युपयोगौ भावेन्द्रियम् ॥ १८ ॥ लम्भनं लब्धिः । का पुनरसौ ? ज्ञानावरणकर्मक्षयोपशमविशेषः । यत्संनिधानादात्मा द्रव्येन्द्रियनिर्वृत्ति प्रति व्याप्रियते तन्निमित्त आत्मनः परिणाम उपयोगः । तदुभये भावेन्द्रियम् ।
-तत्त्वार्थसर्वार्थसिद्धौ । निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ निर्वर्त्यते इति निर्वृत्तिः, सा द्वेधा बाह्याभ्यंतरभेदात् । तत्र विशुद्धात्मप्रदेशवृत्तिरभ्यंतरा तस्यामेव कर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयो ब्राह्या । उपक्रियतेऽनेनेत्युपकरणं । तदपि द्विविधं ब्राह्याभ्यंतरभेदात् । तत्र बाह्यं पक्षपुटादि, कृष्णसारमंडलाद्यभ्यंतरं ।....... कानि पुनर्भावेंद्रियाणीत्याह;
___ लब्ध्युपयोगौ भावेन्द्रियम् ॥ १८ ॥ _इंद्रियनिर्वृत्तिहेतुः क्षयोपशमविशेषो लब्धिः तन्निमित्तः परिणामविशेष उपयोगः लब्धिश्चोपयोगश्च लब्ध्यपयोगौ भावेंद्रियमिति जात्यपेक्षयैकवचनं । -
-तत्त्वार्थश्लोकवार्त्तिके । निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ निर्वर्त्यत इति निर्वृत्तिः ।१। कर्मणा या निर्वर्त्यत निष्पाद्यते सा निर्वृत्तिरित्युपदिश्यते । सा द्वेधा बाह्याभ्यंतरभेदात् ।२। सा निर्वृत्तिर्द्वधा । कुतः ? बाह्याभ्यंतरभेदात् । तत्र
विशुद्धात्मप्रदेशवृत्तिरभ्यंतरा ।३। उत्सेधाालस्याऽसंख्येयभागप्रमितानां विशुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानमानवमानावस्थितानां वृत्तिराभ्यन्तरा निर्वृत्तिः ।
तत्र नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयो बाह्या ।।। तेष्वात्मप्रदेशेष्विन्द्रियव्यपदेशभाक् यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पदलप्रचयः स बाह्या निर्वत्तिः ।
उपक्रियतेऽनेनेत्युपकरणं ५। येन निर्वृत्तिरुपकारः क्रियते तदुपकरणम् ।
तद् द्विविधं पूर्ववत् ।६। तदुपकरणं द्विविधं पूर्ववत् बाह्याभ्यंतरभेदात् । तत्राभ्यन्तरं शुक्लकृष्णमण्डलम्, बाह्यमक्षिपत्रपक्ष्मद्वयादि । एवं शेषेष्वपीन्द्रियेष ज्ञेयम । भावेन्द्रियमुच्यते
लब्ध्युपयोगौ भावेन्द्रियम् ॥ १८ ॥ लब्धिरिति कोऽयं शब्दः ? लाभो लब्धिः । यद्येवं षित्वादप्राप्नोति; "अनुबन्धकृतमनित्यम्"[ ]इति न भवति यथा “वर्णानुपलब्धौ चातदर्थगतैः" [पात० महा०प्रत्याहा०५] इत्येवमादिषु । अथवा "स्त्रियां क्तिः, लभादिभ्यश्च"[श०च०२।३।८०,८१] इति क्तिर्भवति, इष्टाश्चाबादयः इति । अथ कोऽस्यार्थः ?
इन्द्रियनिर्वृत्तिहेतुः क्षयोपशमविशेषो लब्धिः ।१। यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते स ज्ञानावरणक्षयोपशमविशेषो लब्धिरिति विज्ञायते ।
तन्निमित्तः परिणामविशेष उपयोगः ।। तदुक्तं निमित्तं प्रतीत्य उत्पद्यमान आत्मनः परिणाम उपयोग इत्युपदिश्यते । तदेतदुभयं भावेन्द्रियमिति ।
-तत्त्वार्थराजवार्त्तिके ॥