Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 440
________________ तृतीयं परिशिष्टम् निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ 'तत्र निर्वृत्त्युपकरणे द्रव्येन्द्रियम्' तत्रेत्यनेन भाष्यकार: सूत्रं सम्बन्धयति, तत्र द्वितये द्रव्येन्द्रियं तावनिर्धार्यते, स्वरूपभेदाभ्यां निर्वर्तनं निर्वृत्तिः प्रतिविशिष्टसंस्थानोत्पादः, उपक्रियतेऽनेनेत्युपकरणं निर्वृत्तिरेवेन्द्रियं निर्वृत्तीन्द्रियम्, उपकरणेन्द्रियमप्येवम् । उभयमेतत् पुद्गलपरिणामरूपमपि सदिन्द्रियव्यपदेशमश्नुते भावेन्द्रियोपयोगकारणत्वात्, यस्मात् हि तत्साचिव्यं भावस्यैवोपलिङ्गने समायाति आत्मभावपरिणामस्य भाविनो यत् सहायतया क्षमं द्रव्यं तदिह द्रव्येन्द्रियं प्रस्थदारूवदेषितव्यम् । तत्र निवृत्त्युपकरणयोः स्वरूपमाविष्करोति भाष्येणैव-निर्वृत्तिरङ्गोपाङ्गनामेत्यादिना । निर्माणनामकर्मान्तर्गतः कर्मभेदो वर्धकिस्थानीयः कर्णशष्कुल्याद्यवयवसन्निवेशविशेषरचनायामाहितनैपुणः, तथौदारिकादिशरीरत्रयाङ्गोपाङ्गनाकर्मभेदो यदुदयादङ्गान्युपाङ्गानि च निष्पद्यन्ते शिरोङगुल्यादीनि, एतत् कर्मद्वयमुभयरूपं द्रव्येन्द्रियप्रसाधनाय यतते । भाष्यभावना चैवं कार्या । निर्वृत्तिः किंरूपेत्यत आह अङ्गेति । अङ्गोपाङ्गनाम्रा प्रतिविशिष्टेन कर्मभेदेन निर्वतितानि-जनितानि-घटितानि इन्द्रियद्वाराणिइन्द्रियविवराणि, इन्द्रियशब्देन चात्र भावेन्द्रियमुपयोगरूपं विवक्षितं तस्येन्द्रियस्य द्वाराण्यवधानप्रदानमार्गाश्चित्राः शष्कुल्यादिरूपा बहिरुपलभ्यमानाकारा निर्वृत्तिरेका, अपरा त्वभ्यन्तरनिर्वृत्तिः, नानाकारं कायेन्द्रियमसङ्ख्येयभेदत्वादस्य चान्तर्बहिर्भेदो निर्वृत्तेर्न कश्चित् प्रायः, प्रदीर्घत्र्यस्रसंस्थितं कर्णाटकायुधं क्षुरप्रस्तदाकारं रसनेन्द्रियम् । अतिमुक्तकपुष्पदलचन्द्रकाकारं किञ्चित् सकेसरवृत्ताकारमध्यविनतं घ्राणेन्द्रियम् । किञ्चित् समुन्नतमध्यपरिमण्डलाकारं धान्यमसूखच्चक्षुरिन्द्रियम्, पाथेयभाण्डकयवनालिकाकारं श्रोत्रेन्द्रियं नालिककुसुमाकृति चावसेयम् । तत्राद्यं स्वकायपरिमाणं द्रव्यमनश्च शेषाण्यगुलासङ्ख्येयभागप्रमाणनि सर्वजीवानाम् । तथा चागमः "फासिदिए णं भंते ! किंसंठिए पण्णत्ते ? गोयमा ! नाणासंठाणसंठिए, जिब्भिन्दिए णं भंते ! किंसंठिए पण्णत्ते ? गोयमा ! खुरप्पसंठिए, घाणिन्दिए णं भंते ! किंसंठिए पण्णत्ते ? गोयमा ! अतिमुत्तयचंदकसंठिए, चक्खुरिन्दिए णं भंते ! किंसंठिए पण्णत्ते ? गोयमा ! मसूरयचंदसंठिए पण्णत्ते, सोइंदिए णं भंते ! किंसंठिए पण्णत्ते ? गोयमा ! कलंबुयापुप्फसंठिए पण्णत्ते" (प्रज्ञा० सू० १९१) ___अभ्यन्तरां निर्वृत्तिमङ्गीकृत्य सर्वाण्यमूनि सूत्राण्यधीतानि । बाह्या पुननिर्वृत्तिश्चित्राकारत्वान्नोपनिबद्धं शक्या, यथा मनुष्यस्य श्रोतं भ्रूसमं नेत्रयोरुभयपार्श्वतः, अश्वस्य मस्तके नेत्रयोरुपरिष्टात् तीक्ष्णाग्रमित्यादिभेदाद् बहुविधाकाराः । इममेव चातिक्रान्तभाष्यार्थं पर्यायान्तरेण स्पष्टयति भाष्यकर:-कर्मविशेषसंस्कृताः शरीरप्रदेशा: । अथवाङ्गोपाङ्गनामैवोपात्तमतीतभाष्ये न तु निर्माणकर्म तदुपादानायेदमुच्यते कर्मविशेष इत्यादि । कर्मविशेषो नामकर्म तस्यापि विशेष अङ्गोपाङ्गनामनिर्माणकर्म च आभ्यां कर्मविशेषाभ्यां संस्कृता विशिष्टावयवरचनया निष्पादिता-निर्वर्तिताः औदारिकादिशरीराणां त्रयाणां प्रदेशा:-प्रतिविशिष्टा देशाः कर्णशष्कुल्यादयः प्रदेशाः । कर्मविशेषाभिधान श्रवणादतिसम्प्रमुग्धबुद्धामोहस्तदवस्थ एव चेतसीत्यतस्तदवबोधार्थं भूयोऽप्याह-निर्माणनामाङ्गोपाङ्गप्रत्यया मूलगुणनिर्वर्त्तनेत्यर्थः । कर्मविशेषं नामग्राहमाचष्टे-निर्माणनाम च अङ्गोपाङ्गे च निर्माणनामाङ्गोपाङ्गे, मध्यव्यस्थितो नामशब्द उभयं विशेष्यतया क्षिपति, ते कर्मणी प्रत्ययः कारणं-निमितं यस्य निर्वृत्तेः सा निर्माणनामाङ्गोपाङ्गप्रत्यया, मूलगुणनिर्वर्तना उतरगुणनिर्वर्तनापेक्षयोच्यते । उतरगुणनिवर्त्तना हि श्रवणयोर्वेधः प्रलम्बतापादनं चक्षुर्नासिकयोरज्जननस्याभ्यामुपस्कार तथा भेषजप्रदानाज्जिह्वाया जाड्यापनयः स्पर्शनस्य विविधचूर्णगन्धवासप्रघर्षात् तदिति विमलत्वकरणम् एवंविधानेकविशेषनिरपेक्षा यथोत्पन्नोपवर्तिनी औदारिकादिप्रायोग्यद्रव्यवर्गणा मुलकारणव्यवस्थितगुणनिर्वर्त्तनोच्यते ।

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496