Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 442
________________ तृतीयं परिशिष्टम् निर्वृत्त्याद्यपेक्षाभावात् । एतदुक्तं भवति-अवध्यादीनामतीन्द्रियत्वादत्यन्ताभाव एव विशेषो वाच्यः ? । उच्यते-न खलु सर्व उपयोगो लब्धिनिर्वृत्त्युपकरणेन्द्रियकृतः, किं तर्हि स एवैकस्त्रितयनिमित्त इत्यत आह उपयोग: स्पर्शादिषु ॥ १९ ॥ उपयोगः स्पर्शादिषु । स्पर्शरसगन्धवर्णशब्देषु ग्रहणरूपो व्यापार उपयोगो गृह्यते स्पर्शनेन्द्रियादिनिमित्तो नावध्याद्यपयोगः । अममेवार्थं स्पष्टयन भाष्यकदाह-स्पर्शादिष मतिज्ञानोपयोग इत्य स्पर्शादिविषयो मतिज्ञानव्यापारः प्रतिनियतविषयानुभवनमुपलम्भनमिति, अनेन शेषज्ञानव्युदासमादर्शयति मतिज्ञानोपयोग एव लब्धिनिर्वृत्त्युपकरणापेक्षः प्रवर्तते न शेष इति । अत्रोपयोगसामान्यमित्यपढ्तावधानश्चोदयति -स्पर्शादिविषयो य उपयोगपरिसमाप्तिव्यापार इत्युक्तम् । एतच्च परमाणुद्वयणुकादिष्वपि दृष्टम्, परमाणुरपि हि सर्वात्मनोपयुज्यते द्वयणुकादिस्कन्धपरिणामे, ततश्च सोऽप्युपयोगलक्षणं प्राप्नोतीत्यत आह भाष्यकार: -उक्तमेतदुपयोगो लक्षणमिति । अथवा भाष्यकार: स्वयमेवोपयोगविशेषव्याख्यामातितनिषुराह-उक्तमेतदित्यादि । अभिहितमेतदुपयोगश्चैतन्यपरिणामो जीवस्य वैशेषिकं लक्षणं कः परमाण्वादिष्वेव प्रसङ्गोऽत्यन्तासम्बन्ध एव । तमेवोपयोगं पर्यायतः कथयति चैतन्यलक्षणं विशेषव्याख्यानदर्शनद्वारेण उपयोग इत्यादि । उपयोगस्तु द्विविधा चेतना-संविज्ञानलक्षणा, अनुभवनलक्षणा च, तत्र घटाधुपलब्धिः संविज्ञानलक्षणा, सुखदुःखादिसंवेदनानुभवनलक्षणा एतदुभयमुपयोगग्रहणाद् गृह्यते । प्रणिधानमवहितमनस्कत्वम्, एतदुत्कीर्तयति-स्पष्टो हि मतिज्ञानोपयोगो मानसोपयोगावश्यम्भावी द्रव्येन्द्रियाद्यपेक्षश्च नावध्याधुपयोगस्तथेति आयोग इति । स्वविषयमर्यादया स्पर्शादिभेदनिर्भासो ज्ञानोदय: स्पर्शनेन्द्रियादिजन्माभिधीयते तद्भाव इति । उपयोगलाञ्छनो जन्तुस्तच्छब्देनामृश्यते तस्य भावः स्पर्शनादिद्वारजन्मज्ञानमात्मनो भूतिरुद्भव इति यावत्, परिणामोऽप्यात्मन एव तद्भावलक्षणो नार्थान्तरप्रादुर्भावलक्षणः, स्पर्शनादिनिमित्तज्ञानस्यात्मपरिणरूपत्वादित्यर्थः ।। सम्प्रति प्रवृत्तौ क्रमनियममापादयन्नाह-एषामित्यादि भाष्यम् । एषामिति व्याख्यातस्वरूपाणां निर्वृत्त्युपकरणलब्ध्युपयोगेन्द्रियाणामायं प्रवृत्तिक्रमो यदुत निर्वृत्तिः प्राक् तस्यां सत्यामुपकरणमुपयोगश्च भवति प्रयत्वादपकरणस्य तदद्वारजन्मत्वाच्चोपयोगस्य । एतच्च निर्वत्त्यादित्रयं लब्धीन्द्रियपूर्वकं दर्शयतिश्रोत्रादिक्षयोपशमलब्धौ सत्यां निर्वृत्तिं शष्कुल्यादिका भवति, यस्य तु लब्धिर्नास्त्येवंप्रकारा न खलु तस्य प्राणिनः शष्कुल्यादयोऽवयवा निवर्तन्ते तस्माल्लब्ध्यादयश्चत्वारोऽपि समुदिताः शब्दादिविषयपरिच्छेदमापादयन्त इन्द्रियव्यपदेशमश्नुवते । एकेनाप्यवयवेन विकलमिन्द्रयं नोच्यते, न च स्वविषयग्रहणसमर्थ भवति, अमुमर्थ भाष्येण दर्शयति–निर्वृत्त्यादीनामिति सूत्रोपन्यस्तक्रममङ्गीकृत्योच्यते निर्वृत्त्युपकरणलब्ध्युपयोगानामन्यतमाभावे एकेनाप्यङ्गेन विकले सति समुदाये न जातुचित् शब्दादिविषयस्वरूपावबोधो भवत्यात्मनः, विकलकरणत्वात् । -तत्त्वार्थसिद्धसेनीयवृत्तौ । निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ निर्वर्त्यते इति निर्वृत्तिः । केन निर्वय॑ते ? कर्मणा । सा द्विविधा; बाह्याभ्यन्तरभेदात् । उत्सेधाङ्गुलासंख्येयभागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थितानां वृत्तिराभ्यान्तरा निर्वृत्तिः । तेष्वात्मप्रदेशेष्वन्द्रियव्यपदेशभाक्षु यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः सा बाह्या निर्वृत्तिः । येन निर्वृत्तेरुपकारः क्रियते तदुपकरणम् । पूर्ववत्तदपि द्विविधम् । तत्राभ्यन्तरं कृष्णशुक्लमण्डलं, बाह्यमक्षिपत्रपक्ष्मद्वयादि । एवं शेषेष्वपीन्द्रियेषु ज्ञेयम् । भावेन्द्रियमुच्यते

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496