Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
शास्त्रान्तरैः सह तुलना
अभ्यन्तरं खड्गस्थानीयाया निर्वृत्तेस्तद्धाराशक्तिकल्पं स्वच्छतरपुद्गलजालनिष्पादितं तदभिन्नदेशमेवेति । यदधिकृत्याह-'निर्वर्तितस्ये 'त्यादि, निर्वर्तितस्य-निष्पादितस्य स्वावयवविभागेन, निर्वृत्तीन्द्रिस्ये अनुपघातानुग्रहाभ्यामुपकारीति यदनुपहत्या उपग्रहेण चोपकरोति तदुपकरणेन्द्रियमिति तथा हि- निवृत्ती सत्यामपि शक्त्युपघाते न विषयग्रहः, बाह्योपकरणघाते च नियमतः शक्त्युपघात इति तत्प्राधान्यतो बाह्यमभ्यन्तरं चेत्याह । इत्थं द्रव्येन्द्रियमभिधायैतत्प्रतिबद्धमेव भावेन्द्रियमाह
लब्ध्युपयोगौ भावेन्द्रियमिति ॥१८॥
लब्धिः-स्पर्शनादीन्द्रियावरणकर्मक्षयोपशमः उपयोगः-प्रणिधानं, एतदुभयं भावेन्द्रियमात्मपरिणतिलक्षणमिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह वृत्तिकारः-लब्धिरुपयोगश्च एतद्द्वयं भावेन्द्रियं भवति, आत्मपरिणतिरूपत्वात् । तत्र लब्धिर्नामे'त्यादि, लाभो लब्धिः प्राप्तिरित्यनर्थान्तरं, नामेति वाक्यालङ्कारार्थः, गतिजात्यादिनामकर्मजनितेति गति-जाती आदिर्यस्य तद्गतिजात्यादि, गतिजात्यादि च तन्नामकर्म चेति विग्रहः, तेन जनिता-निर्वर्त्तिता, मनुष्यादेर्भावात्, मनुष्यगतिपंचेन्द्रियजात्यङ्गोपाङ्गादिनामजनितेत्यर्थः, प्रत्यासन्नतरान्तरकारणाभिधित्सयाऽऽह-'क्षयोपशमजनिता चेति सामर्थ्यात् मतिज्ञानदर्शनावरणक्षयोपशमनिर्वर्त्तित्ता च । ननु च क्षयोपशम एव लब्धिरुक्ता तत्तेन जनिता काऽन्येयम् ?, उच्यते, तत्फलभूता ज्ञानशक्तिरूपैव प्रज्ञा कारणे कार्योपचारं कृत्वा क्षयोपशम उक्त इत्यदोषः । आसन्नतरं कारणमाह-इन्द्रियाश्रयकर्मोदयनिर्वृत्ता च जीवस्य भवतीति इन्द्रियाण्याश्रयः- अवकाशो येषां कर्मणां तानीन्द्रियाश्रयाणि-निर्माणाङ्गोपाङ्गादीनि तदुदयेन तद्विपाकेन निर्वृत्ताजनिता वेति । जीवस्यात्मनो लब्धिर्भवतीति स्वच्छदर्पणतलप्रतिबिम्बदृष्टान्तेन, स्वच्छे हि दर्पणतले प्रतिबिम्बोदयो भवति न मलीमसे, तथा निर्माणाङ्गोपाङ्गदेरत्यन्तविमलतद्योग्यपुद्गलद्रव्य-निर्मापितानीन्द्रियाणि तस्याः क्षयोपशमलब्धेः अनुलम्बनमुपयच्छंति-कारणतां बिभ्रतीति..... ॥१८॥
उक्ता लब्धिः । अधुनोपयोगमाहउपयोगः स्पर्शादिष्विति ॥१९॥
उपयोगो ज्ञानादिव्यापारः स्पर्शादिविषयः इति सूत्रसमुदायार्थः । अवयवार्थमाह'स्पर्शादिष्वि'त्यादि, स्पर्शादिषु पञ्चसु विषयेसु 'मतिज्ञानोपयोगो' मतिज्ञानव्यापारः उपयोगः, इत्येवमर्थो यस्य प्रवचनहराख्यातः, उपयोगः स्पर्शादिषु परमाणोरपि भवति, स च भावेन्द्रियाधिकारात्तस्य चाजीवलक्षणत्वात् नेहाधिक्रियत इत्याह-'उक्तमेत'दित्यादि, अभिहितमेतत् प्राग उपयोग:- चैतन्यपरिणामो लक्षणं-वैशेषिकं जीवस्य, जीवलिङ्गं चेन्द्रियमिति परमाणूपयोगोप्रसंगः, अत एवाह-उपयोगो-ज्ञानादिरूपश्चैतन्यपरिणामः, अयं चावध्यादिरूपोऽपि भवतीत्याह-प्रणिधानं-अवहितमनस्कत्वं, एतदपि भावनापेक्षयाऽवध्यादिसाधारणमेवेत्याहआयोगः खविषयमर्यादया स्पर्शादिष्वेव, एवमप्यधिकरणवत्वमवध्युपयोगस्येत्यत आह-तद्भावः, उपयोगोलाञ्छनं जीवस्य स्पर्शाधुपलम्भभावात्, 'परिणाम इत्यर्थः' परिणमनं परिणामः-तत्तदुपयोगाधिकरणस्यैव तथाभाव इति योऽर्थः, उपयोगप्रवृत्तौ क्रममाह-'एषां चेत्यादिना, एषां चेति व्याख्यातस्वरूपाणां निर्वृत्त्युपक रणलब्ध्युपयोगेन्द्रयाणां प्रवृत्तावयं क्रमः-यदुत सत्यां निर्वृत्तौ तु उक्तलक्षणायां उपकरणोपयोगौ भवतःउक्त लक्षणावेव, निर्वृत्त्याश्रयत्वादुपकरणस्य तत्प्रभवत्वात् श्रोत्राद्युपयोगस्येति, सत्यां च लब्धौ श्रोत्रादिक्षयोपशमरूपायां निर्वृत्त्युपकरणोपयोगा भवन्ति, कर्मविशेषसंस्कृतप्रदेशभावे कर्णशष्कुल्यादिभावात्, तदभावे अभावात्, तथा चाह-निर्वत्त्यादीनामेकतराभावे विषयालोचनं न भवति ॥१९॥
-तत्त्वार्थहारिभद्रीयवृत्तौ ।

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496