SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ शास्त्रान्तरैः सह तुलना अभ्यन्तरं खड्गस्थानीयाया निर्वृत्तेस्तद्धाराशक्तिकल्पं स्वच्छतरपुद्गलजालनिष्पादितं तदभिन्नदेशमेवेति । यदधिकृत्याह-'निर्वर्तितस्ये 'त्यादि, निर्वर्तितस्य-निष्पादितस्य स्वावयवविभागेन, निर्वृत्तीन्द्रिस्ये अनुपघातानुग्रहाभ्यामुपकारीति यदनुपहत्या उपग्रहेण चोपकरोति तदुपकरणेन्द्रियमिति तथा हि- निवृत्ती सत्यामपि शक्त्युपघाते न विषयग्रहः, बाह्योपकरणघाते च नियमतः शक्त्युपघात इति तत्प्राधान्यतो बाह्यमभ्यन्तरं चेत्याह । इत्थं द्रव्येन्द्रियमभिधायैतत्प्रतिबद्धमेव भावेन्द्रियमाह लब्ध्युपयोगौ भावेन्द्रियमिति ॥१८॥ लब्धिः-स्पर्शनादीन्द्रियावरणकर्मक्षयोपशमः उपयोगः-प्रणिधानं, एतदुभयं भावेन्द्रियमात्मपरिणतिलक्षणमिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह वृत्तिकारः-लब्धिरुपयोगश्च एतद्द्वयं भावेन्द्रियं भवति, आत्मपरिणतिरूपत्वात् । तत्र लब्धिर्नामे'त्यादि, लाभो लब्धिः प्राप्तिरित्यनर्थान्तरं, नामेति वाक्यालङ्कारार्थः, गतिजात्यादिनामकर्मजनितेति गति-जाती आदिर्यस्य तद्गतिजात्यादि, गतिजात्यादि च तन्नामकर्म चेति विग्रहः, तेन जनिता-निर्वर्त्तिता, मनुष्यादेर्भावात्, मनुष्यगतिपंचेन्द्रियजात्यङ्गोपाङ्गादिनामजनितेत्यर्थः, प्रत्यासन्नतरान्तरकारणाभिधित्सयाऽऽह-'क्षयोपशमजनिता चेति सामर्थ्यात् मतिज्ञानदर्शनावरणक्षयोपशमनिर्वर्त्तित्ता च । ननु च क्षयोपशम एव लब्धिरुक्ता तत्तेन जनिता काऽन्येयम् ?, उच्यते, तत्फलभूता ज्ञानशक्तिरूपैव प्रज्ञा कारणे कार्योपचारं कृत्वा क्षयोपशम उक्त इत्यदोषः । आसन्नतरं कारणमाह-इन्द्रियाश्रयकर्मोदयनिर्वृत्ता च जीवस्य भवतीति इन्द्रियाण्याश्रयः- अवकाशो येषां कर्मणां तानीन्द्रियाश्रयाणि-निर्माणाङ्गोपाङ्गादीनि तदुदयेन तद्विपाकेन निर्वृत्ताजनिता वेति । जीवस्यात्मनो लब्धिर्भवतीति स्वच्छदर्पणतलप्रतिबिम्बदृष्टान्तेन, स्वच्छे हि दर्पणतले प्रतिबिम्बोदयो भवति न मलीमसे, तथा निर्माणाङ्गोपाङ्गदेरत्यन्तविमलतद्योग्यपुद्गलद्रव्य-निर्मापितानीन्द्रियाणि तस्याः क्षयोपशमलब्धेः अनुलम्बनमुपयच्छंति-कारणतां बिभ्रतीति..... ॥१८॥ उक्ता लब्धिः । अधुनोपयोगमाहउपयोगः स्पर्शादिष्विति ॥१९॥ उपयोगो ज्ञानादिव्यापारः स्पर्शादिविषयः इति सूत्रसमुदायार्थः । अवयवार्थमाह'स्पर्शादिष्वि'त्यादि, स्पर्शादिषु पञ्चसु विषयेसु 'मतिज्ञानोपयोगो' मतिज्ञानव्यापारः उपयोगः, इत्येवमर्थो यस्य प्रवचनहराख्यातः, उपयोगः स्पर्शादिषु परमाणोरपि भवति, स च भावेन्द्रियाधिकारात्तस्य चाजीवलक्षणत्वात् नेहाधिक्रियत इत्याह-'उक्तमेत'दित्यादि, अभिहितमेतत् प्राग उपयोग:- चैतन्यपरिणामो लक्षणं-वैशेषिकं जीवस्य, जीवलिङ्गं चेन्द्रियमिति परमाणूपयोगोप्रसंगः, अत एवाह-उपयोगो-ज्ञानादिरूपश्चैतन्यपरिणामः, अयं चावध्यादिरूपोऽपि भवतीत्याह-प्रणिधानं-अवहितमनस्कत्वं, एतदपि भावनापेक्षयाऽवध्यादिसाधारणमेवेत्याहआयोगः खविषयमर्यादया स्पर्शादिष्वेव, एवमप्यधिकरणवत्वमवध्युपयोगस्येत्यत आह-तद्भावः, उपयोगोलाञ्छनं जीवस्य स्पर्शाधुपलम्भभावात्, 'परिणाम इत्यर्थः' परिणमनं परिणामः-तत्तदुपयोगाधिकरणस्यैव तथाभाव इति योऽर्थः, उपयोगप्रवृत्तौ क्रममाह-'एषां चेत्यादिना, एषां चेति व्याख्यातस्वरूपाणां निर्वृत्त्युपक रणलब्ध्युपयोगेन्द्रयाणां प्रवृत्तावयं क्रमः-यदुत सत्यां निर्वृत्तौ तु उक्तलक्षणायां उपकरणोपयोगौ भवतःउक्त लक्षणावेव, निर्वृत्त्याश्रयत्वादुपकरणस्य तत्प्रभवत्वात् श्रोत्राद्युपयोगस्येति, सत्यां च लब्धौ श्रोत्रादिक्षयोपशमरूपायां निर्वृत्त्युपकरणोपयोगा भवन्ति, कर्मविशेषसंस्कृतप्रदेशभावे कर्णशष्कुल्यादिभावात्, तदभावे अभावात्, तथा चाह-निर्वत्त्यादीनामेकतराभावे विषयालोचनं न भवति ॥१९॥ -तत्त्वार्थहारिभद्रीयवृत्तौ ।
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy