________________
तृतीयं परिशिष्टम्
निर्वृत्तीन्द्रियमुपकरणेन्द्रियं च द्विविधं द्रव्येन्द्रियम् । निर्वृत्तिरङ्गोपाङ्गनामनिर्वर्तितानीन्द्रियद्वाराणि, कर्मविशेषसंस्कृताः शरीरप्रदेशाः । निर्माणनामाङ्गोपाङ्गप्रत्यया मूलगुणनिर्वर्तनेत्यर्थः । उपकरणं बाह्यमभ्यन्तरं च । निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारीति ॥१७॥
लब्ध्युपयोगौ भावेन्दियम् ॥१८॥
लब्धिरुपयोगश्च भावेन्द्रियं भवति । लब्धिर्नाम गतिजात्यादिनामकर्मजनिता तदावरणीयकर्मक्षयोपशमजनिता चेन्द्रियाश्रयकर्मोदयनिर्वृत्ता च जीवस्य भवति । ....... ॥१८॥
उपयोगः स्पर्शादिषु ॥१९॥
स्पर्शादिषु मतिज्ञानोपयोग इत्यर्थः । उक्तमेतदुपयोगो लक्षणम् । उपयोगः प्रणिधानम् । आयोगस्तद्भावः परिणाम इत्यर्थः । एषां च सत्यां निर्वृत्तावुपकरणोपयोगौ भवतः । सत्यां च निर्वत्त्युपकरणोपयोगा भवन्ति । निर्वत्त्यादीनामेकतराभावे विषयालोचनं न भवति ॥१९॥
-तत्त्वार्थभाष्ये । निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥१७॥
निर्वृत्त्युपकरणे पुद्गलमये द्रव्येन्द्रियमिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'निर्वृत्तीन्द्रिय'मित्यादिना, निवर्त्तनं निर्वृत्तिः- प्रतिविशिष्टसंस्थानोपपत्तिः सैवेन्द्रियं निर्वृत्तीन्द्रियं, उपक्रियतेऽनेनेत्युपकरणं एतदेवेन्द्रियं,चःसमुच्चये, द्विविधमेतद्रव्येन्द्रियं भावेन्द्रियोपकरणत्वात् द्रव्यात्मकत्वाच्चेति, निर्वृत्तेर्लक्षणमाह'निर्वृत्ति'रित्यादिना, 'निर्वृत्तिः अंगोपाङ्गनामकर्मनिर्वर्त्तितानीति इहाङ्गोपाङ्गनाम-औदारिकादिशरीरत्रयाङ्गोपाङ्गनिर्वर्तकं यदुदयादङ्गोपाङ्गान्युत्पद्यन्ते शिरोऽङ्गुल्यादीनि, निर्माणनाम चात्र वर्द्धकिसंस्थानीयं कर्णशष्कुल्याद्यवयवसन्निवेशविशेषरचनायामाहितनैपुण्यमित्याचार्याः । तदित्थमंगोपाङ्गनाम्ना प्रतिविशिष्टेन कर्मणा निर्वत्तितानि-जनितानि । तानि कानीत्याह-'इन्द्रियद्वाराणि' इन्द्रियविवराणि, भावेन्द्रियावधानद्वाराणीति भावः । एतानि च नानासंस्थानादीनि, तथा चागमः
___ "फासिदिए णं भंते ! किंसठिए पण्णत्ते ?, गोयमा ! नानासंठाणसंठिए पण्णत्ते, जिन्भिंदिए णं किंसंठिए पण्णत्ते ?, गोयमा ! खुरप्पसंठिए, घाणिदिए णं भंते ! किंसंठिए पन्नत्ते ? गोअमा ! अतिमुत्तयचंपयसंठिए, एवं चक्खुरिदिए णं भंते ! किंसंठिए पण्णत्ते ?, गोयमा ! मसूरयचंदसंठिए पण्णत्ते, सोइंदिए णं किंसंठिए पण्णत्ते ?, गोयमा ! कलंबुआपुप्फसंठिए पण्णत्ते" [ ]।
अभ्यन्तरां निर्वृत्तिमङ्गीकृत्य सर्वाण्यमूनि सूत्राण्यधीतानि । बाह्या पुनर्निर्वृत्तिश्चित्राकारत्वान्नोपनिबद्धं शक्या, अथ (पशु) मनुष्यादीनां बाह्यश्रोत्रादिभेदादिति । इममेव अतिक्रान्तभाल्थ पर्यायान्तरेण स्पष्टयन्नाह'क'त्यादि, कर्मविशेषसंस्कृताः इति कर्मविशेषो नामकर्म, तस्यापि अङ्गोपाङ्गनाम निर्माणकर्म च, आभ्यां संस्कृता-विशिष्टावयवरचनया निर्वर्तिताः शरीरप्रदेशाः औदारिकादीनां त्रयाणां प्रतिविशिष्टा देशाः कर्णशष्कल्यादय इति, मुग्धमतिमोहव्यपोहायाह-'
निर्माण'त्यादि, निर्माणनाम चाङ्गोपाङ्गं च निर्माणनामाङ्गोपाङ्गे, ते प्रत्ययः-कारणं यस्याः सा तथाविधा, मूलगुणनिर्वर्त्तनेत्यर्थः, निगमनमेतत्, नोत्तरगुणनिर्वर्त्तना, सा हि कर्णवेधयोः प्रलम्बतापादनं चक्षुर्नासिकयोरज्जननस्याभ्यामुपकारः ब्राझ्यादियोगात् जिह्वायाः स्पर्शस्य गन्धदिभिर्विमलत्वकरणमिति, "इत्यर्थः' इत्येवमर्थो यस्यां प्रवचनज्ञैराख्यात इति ।
व्याख्याता निर्वृत्तिः । अधुनोपकरणमाह'उपकरणं बाह्यमभ्यन्तरं च' उपक्रियतेऽनेन निर्वृत्तीन्द्रियमित्युपकरणं, बाह्यकरणं शष्कुल्यादीति, तत्र
२४