Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 437
________________ शास्त्रान्तरैः सह तुलना जीवैर्वजितमित्यर्थः तथापि खलु भगवता 'अनाची' नानुज्ञातम् । एषोऽनुधर्मः 'प्रवचनस्य' तीर्थस्य, सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रोपहतपरिहारलक्षण एष एव धर्मोऽनुगन्तव्य इति भावः ॥ ९९७ ॥ अथैतदेव विवृणोति— वक्कंतजोणि थंडिल, अतसा दिन्ना ठिई अवि छुहाए । तह विन हिंसु जिणो, मा हु पसंगो असत्थहए ॥ ९९८ ॥ यत्र भगवानावासितस्तत्र बहूनि तिलशकटान्यावासितान्यासन् । तेषु च तिलाः 'व्युत्क्रान्तयोनिकाः ' अशस्त्रोपहता अप्यायुः क्षयेणाचित्तीभूताः । ते च यद्यस्थण्डिले स्थिता भवेयुस्ततो न कल्पेरन्नित्यत आह— स्थण्डिले स्थिताः । एवंविधा अपि त्रसैः संसक्ता भविष्यन्तीत्याह — 'अत्रसाः ' तदुद्भवा - ऽऽगन्तुकत्रसविरहिताः । तिलशकटस्वामिमिश्च गृहस्थैर्दत्ताः, एतेन चादत्तादानदोषोऽपि तेषु नास्तीत्युक्तं भवति । अपि च ते साधवः क्षुधा पिडिता आयुषः स्थितिक्षयमकार्षुः तथापि 'जिनः ' वर्द्धमानस्वामी नाऽग्रहीत्, 'मा भूदशस्त्रहते प्रसङ्गः, 'तीर्थकरेणापि गृहीतम्' इति मदीयमालम्बनं कृत्वा मत्सन्तानवर्त्तिनः शिष्या अशस्त्रोपहतं मा ग्रहिषुः' इति भावात्, व्यवहारनयबलीयस्त्वख्यापनाय भगवता न गृहीता इति हृदयम्; युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम् । यत उक्तम्— " प्रमाणानि प्रमाणस्थै, रक्षणीयानी यत्नतः । विषिदन्ति प्रमाणानि, प्रमाणस्थैर्विसंस्थुलैः ॥ " [ एमेव य निज्जीवे, दहम्मि तसवज्जिए दए दिन्ने । समभोम्मे य अवि ठिती, जिमिता सन्ना न याऽणुन्ना ॥९९९॥ एवमेव च हूदे 'निर्जीवे' यथायुष्कक्षयादचित्तीभूतेऽचित्तपृथिव्यां च स्थिते त्रसवर्जिते च ‘दके' पानीये हृदस्वामिना च दत्ते तृषार्दितानां च साधूनां स्थितिक्षयकरणेऽपि भगवान्नानुजानीते स्म 'मा भूत् प्रसङ्गः ' इति । तथा स्वामी तृतीयपौरुष्यां जिमितमात्रैः साधुभिः सार्धमेकामटवीं प्रपन्नः, “सन्न "त्ति संज्ञाया आबाधा, यद्वा "आसन्न "त्ति भावासन्नता साधूनां समजनि, तत्र च समभौमं गर्त्ता-गोष्पद - बिलादिवर्जितं यथास्थितिक्षयव्युत्क्रान्तयोनिकपृथिवीकं त्रसप्राणविरहितं स्थण्डिलं वर्त्तते, अपरं च शस्त्रोपहतं स्थण्डिलं नास्ति न वा प्राप्यते, अपि च ते साधवः संज्ञाबाधिताः स्थितिक्षयं कुर्वन्ति तथापि भगवान् नानुज्ञां करोति यथा 'अत्र व्युत्सृजत' इति, 'मा भूदशस्त्रहते प्रसङ्गः' इति । एष अनुधर्मः प्रवचनस्येति सर्वत्र योज्यम् ॥९९९॥ —बृहत्कल्पवृत्तौ ॥ * आचा०सू०३२ * आचा०सू०६४ ] ॥९९८॥ 'खेत्तण्णे' " इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः || क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्र-क्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम || १३|१ - २॥ " - भगवद्गीता | "अखेत्तञ्जू अकुसलो" इति पालित्रिपिटकान्तर्गते अंगुत्तरनिकाये नवकनिपाते, चतुर्थे भागे पृ० ५७ । "अखेत्त अगोचर" इति विसुद्धिमग्गटीकायां प्रथमे भागे पृ० ३२६ ॥ इन्द्रियस्वरूपनिरूपणम् निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥१७॥ २३

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496