Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
[श्रु०१। अ०४। उ०२। सू०१३४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
तथा हि- राग-द्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात् सर्वं संसाराय, पिचुमन्दरसवासिताऽऽस्यस्य दुग्ध-शर्करादिकटुकत्वापत्तिवदिति। सम्यग्दृष्टेस्तु 'विदितसंसारोदन्वतः न्यकृतविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति च भावयतः सञ्जातसंवेगस्य इतरजनसंसारकारणमपि मोक्षाय इति भावार्थः। पुनः एतदेव गतप्रत्यागतसूत्रं सप्रतिषेधमाह
जे अणासवा इत्यादि। प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसानतया परिश्रवा इति अनेन सह सम्बन्धाभावात् पर्युदासोऽयम्। आश्रवेभ्योऽन्ये अनाश्रवाःव्रतविशेषाः तेऽपि कर्मोदयाद् अशुभाध्यवसायिनः अपरिश्रवाः कर्मणः, *कोङ्कणार्यप्रभृतीनामिवेति। तथा अपरिश्रवाः पापोपादानकारणानि केनचिद् उपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येव अनाश्रवाः कर्मबन्धनानि न भवन्ति।
___ यदि वा आश्रवन्तीति आश्रवाः पचाद्यच्, एवं परिश्रवन्तीति परिश्रवाः। अत्र चतुर्भङ्गिका- तत्र मिथ्यात्वा-ऽविरति-प्रमाद-कषाय-योगैः य एव कर्मणां आश्रवाः = बन्धकाः त एव अपरेषां परिश्रवाः निर्जरकाः एते च प्रथमभङ्गपतिताः सर्वेऽपि संसारिणः चतुर्गतिकाः, सर्वेषां प्रतिक्षणं उभयसद्भावात्। तथा ये आश्रवाः ते अपरिश्रवा इति शून्योऽयं द्वितीयभङ्गकः, बन्धस्य शाटाविनाभावित्वात्। एवं ये अनाश्रवाः ते परिश्रवाः, एते च अयोगिकेवलिनः तृतीयभङ्गपतिताः। चतुर्थभङ्गपतितास्तु सिद्धाः, तेषामनाश्रवत्वाद् अपरिश्रवत्वाच्चेति। अत्र च आद्यन्तभङ्गको सूत्रोपात्तौ, तदुपादाने च मध्योपादानस्य अवश्यम्भावित्वाद् मध्यभङ्गकद्वयग्रहणं द्रष्टव्यमिति। यद्येवं ततः किम् ? इत्याह
एते य पए संबुज्झमाणे लोगं च आणाए अभिसमेच्चा पढो पवेदितं आघाति णाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणं विण्णाणपत्ताणं।
एते पए इत्यादि। एतानि अनन्तरोक्तानि, पद्यते-गम्यते येभ्योऽर्थस्तानि पदानि, तद्यथा ये आश्रवा इत्यादीनि। परस्य च अर्थावगत्यर्थं शब्दप्रयोगाद् एतत्पदवाच्यान् अर्थान् च सम्यग् अविपर्यासेन बुध्यमानः, तथा लोकं जन्तुगणं आश्रवद्वारायातेन कर्मणा बध्यमानं तपश्चरणादिना च मुच्यमानं आज्ञया तीर्थकरप्रणीतागमानुसारेण अभिसमेत्य
__ टि० १. विज्ञातसंसारोदन्वतस्त्यक्तविषया० च॥ २. ० संवेगस्य तस्येतर० ख॥ ३. पुनरेव गत० ख॥ ४. प्रसह्य प्रतिषे० क ग च।। ५. प्रवचनोक्तप्रकरादिना घ ङ ।। ६. करवीर० ख ग॥ ७. कर्मबन्धाय न भवन्ति ख-चपुस्तके विना॥
वि०टि० *"कोकणार्य इति यथा वृद्ध: प्रवजितश्चिन्तयति वर्षाकालसमये दुती" जै०वि०प०॥ “अपरेषाम् इति पूर्वबद्धकर्मणाम्' जै०वि०प० ।।
३३४

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496