SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०४। उ०२। सू०१३४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् तथा हि- राग-द्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात् सर्वं संसाराय, पिचुमन्दरसवासिताऽऽस्यस्य दुग्ध-शर्करादिकटुकत्वापत्तिवदिति। सम्यग्दृष्टेस्तु 'विदितसंसारोदन्वतः न्यकृतविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति च भावयतः सञ्जातसंवेगस्य इतरजनसंसारकारणमपि मोक्षाय इति भावार्थः। पुनः एतदेव गतप्रत्यागतसूत्रं सप्रतिषेधमाह जे अणासवा इत्यादि। प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसानतया परिश्रवा इति अनेन सह सम्बन्धाभावात् पर्युदासोऽयम्। आश्रवेभ्योऽन्ये अनाश्रवाःव्रतविशेषाः तेऽपि कर्मोदयाद् अशुभाध्यवसायिनः अपरिश्रवाः कर्मणः, *कोङ्कणार्यप्रभृतीनामिवेति। तथा अपरिश्रवाः पापोपादानकारणानि केनचिद् उपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येव अनाश्रवाः कर्मबन्धनानि न भवन्ति। ___ यदि वा आश्रवन्तीति आश्रवाः पचाद्यच्, एवं परिश्रवन्तीति परिश्रवाः। अत्र चतुर्भङ्गिका- तत्र मिथ्यात्वा-ऽविरति-प्रमाद-कषाय-योगैः य एव कर्मणां आश्रवाः = बन्धकाः त एव अपरेषां परिश्रवाः निर्जरकाः एते च प्रथमभङ्गपतिताः सर्वेऽपि संसारिणः चतुर्गतिकाः, सर्वेषां प्रतिक्षणं उभयसद्भावात्। तथा ये आश्रवाः ते अपरिश्रवा इति शून्योऽयं द्वितीयभङ्गकः, बन्धस्य शाटाविनाभावित्वात्। एवं ये अनाश्रवाः ते परिश्रवाः, एते च अयोगिकेवलिनः तृतीयभङ्गपतिताः। चतुर्थभङ्गपतितास्तु सिद्धाः, तेषामनाश्रवत्वाद् अपरिश्रवत्वाच्चेति। अत्र च आद्यन्तभङ्गको सूत्रोपात्तौ, तदुपादाने च मध्योपादानस्य अवश्यम्भावित्वाद् मध्यभङ्गकद्वयग्रहणं द्रष्टव्यमिति। यद्येवं ततः किम् ? इत्याह एते य पए संबुज्झमाणे लोगं च आणाए अभिसमेच्चा पढो पवेदितं आघाति णाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणं विण्णाणपत्ताणं। एते पए इत्यादि। एतानि अनन्तरोक्तानि, पद्यते-गम्यते येभ्योऽर्थस्तानि पदानि, तद्यथा ये आश्रवा इत्यादीनि। परस्य च अर्थावगत्यर्थं शब्दप्रयोगाद् एतत्पदवाच्यान् अर्थान् च सम्यग् अविपर्यासेन बुध्यमानः, तथा लोकं जन्तुगणं आश्रवद्वारायातेन कर्मणा बध्यमानं तपश्चरणादिना च मुच्यमानं आज्ञया तीर्थकरप्रणीतागमानुसारेण अभिसमेत्य __ टि० १. विज्ञातसंसारोदन्वतस्त्यक्तविषया० च॥ २. ० संवेगस्य तस्येतर० ख॥ ३. पुनरेव गत० ख॥ ४. प्रसह्य प्रतिषे० क ग च।। ५. प्रवचनोक्तप्रकरादिना घ ङ ।। ६. करवीर० ख ग॥ ७. कर्मबन्धाय न भवन्ति ख-चपुस्तके विना॥ वि०टि० *"कोकणार्य इति यथा वृद्ध: प्रवजितश्चिन्तयति वर्षाकालसमये दुती" जै०वि०प०॥ “अपरेषाम् इति पूर्वबद्धकर्मणाम्' जै०वि०प० ।। ३३४
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy