________________
॥ द्वितीय उद्देशकः ॥ उक्तः प्रथमोद्देशकः। साम्प्रतं द्वितीयव्याख्या प्रतन्यते। अस्य च अयमभिसम्बन्धःइह अनन्तरोद्देशके सम्यग्वादः प्रतिपादितः। स च प्रेत्यनीकमिथ्यावादव्युदासेन आत्मलाभं लभते। व्युदासश्च न परिज्ञानमन्तरेण, परिज्ञानं च न विचारमृते, अतो मिथ्यावादभूततीर्थिकमतविचारणाय इदं उपक्रम्यते। अनेन सम्बन्धेन आयातस्य अस्य उद्देशकस्य इदं आदिसूत्रम्- जे आसवा इत्यादि। यदि वा इह सम्यक्त्वमधिकृतम् ; तच्च सप्तपदार्थश्रद्धानात्मकम्; तत्र मुमुक्षुणा अवगतशस्त्रपरिज्ञाजीवा-ऽजीवपदार्थेन संसारमोक्षकारणे निर्णेतव्ये। तत्र संसारकारणमाश्रवः, तद्ग्रहणाच्च बन्धग्रहणम्; मोक्षकारणं तु निर्जरा, तद्ग्रहणाच्च संवरः तत्कार्यभूतश्च मोक्षः सूचितो भवतीति; अत आश्रव-निर्जरे संसार-मोक्षकारणभूते सम्यक्त्वविचारायाते दर्शयितुमाहसू०] जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा।
जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवा। जे आसवा इत्यादि। ये इति सामान्यनिर्देशः, आश्रवति अष्टप्रकारं कर्म यैरारम्भैः ते आश्रवाः, परिः समन्तात् श्रवति गलति यैः अनुष्ठानविशेषः ते परिश्रवाः। य एव आश्रवाः= कर्मबन्धस्थानानि त एव परिश्रवाः कर्मनिर्जरास्पदानि। इदमुक्तं भवति- यानि इतरजनाचरितानि स्त्रगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वाद् आश्रवाः, पुनः तान्येव तत्त्वविदां विषयसुखपराङ्मुखानां निःसारतया संसारसरणिदेश्यानीति कृत्वा वैराग्यजनकानि, अतः परिश्रवाः निर्जरास्थानानि। सर्ववस्तूनां अनैकान्तिकता दर्शयितुं तदेव विपर्ययेणाह
जे परिस्सवा इत्यादि। य एव परिश्रवाः=निर्जरास्थानानि अर्हत्-साधु-तपश्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि तान्येव कर्मोदयावष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोः महाशातनावतः सातर्द्धिरसगारवप्रवणस्य आश्रवा भवन्ति पापोपादानकारणानि जायन्ते। इदमुक्तं भवति- यावन्ति कर्मनिर्जरार्थं संयमस्थानानि तद्बन्धनाय असंयमस्थानानि अपि तावन्ति एव, उक्तं च
"यथाप्रकारा यावन्तः,संसाराऽऽवेशहेतवः। तावन्तस्तद्विपर्यासाद् , निर्वाणसुखहेतवः॥" [... ]
टि० १. अधुना च॥ २. प्रत्यनीकान्यथावाद० क॥ ३. परिज्ञानमृते, परिज्ञानं च न विचारमन्तरेण, अतो ख च ।। ४. ०णं च निर्जरा तत्कारणं च संवर० म।। ५. कर्मोदयादवष्टब्धः ख ग च ॥ ६. महाशातनात: ख ग च॥