________________
[श्रु०१। अ०४। उ०१। सू०१३३] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
अहो य रातो य जतमाणे धीरे सया आगतपण्णाणे, पमत्ते बहिया पास, अप्पमत्ते सया परक्कमेजासि त्ति बेमि ॥१३३॥
॥ सम्मत्तस्स पढमो उद्देसओ सम्मत्तो ॥ अहो य इत्यादि। अहश्श रात्रिं च यतमान एव यत्नवानेव मोक्षाध्वनि धीरः= परीषहोपसर्गाक्षोभ्यः सदा-सर्वकालं आगतं-स्वीकृतं प्रज्ञानं-सदसद्विवेको यस्य स तथा, प्रमत्तान् संयतान् परतीर्थिकान् वा धर्माद् बहिर्व्यवस्थितान् पश्य। तांश्च तथाभूतान् दृष्ट्वा किं कुर्यात्? इत्याह
___ अप्पमत्ते इत्यादि। अप्रमत्तः सन् निद्रा-विकथादिप्रमादरहितः अक्षिनिमेषोन्मेषादौ अपि सदा उपयुक्तः पराक्रमेथाः कर्मरिपून् मोक्षाध्वनि वा, इतिः अधिकारपरिसमाप्तौ, ब्रवीमि इति पूर्ववत्॥१३३॥
॥ सम्यक्त्वाध्ययनस्य प्रथमोद्देशकटीका परिसमाप्तेति ॥छ।
टि०१. वीरः ग॥ २. परीषहाक्षोभ्यः ख॥३. इति सम्यक्त्वाध्ययने प्रथमोद्देशकः परिसमाप्तः॥ छ। ख-चप्रती ऋते॥
३३२