________________
लोकैषणानाचरणम् [श्रु०१। अ०४। उ०१। सू०१३३] 'शुभेतरता परिणामवशाद् भवतीति, अतः कः तेषु रागो द्वेषो वा ?' इति। किञ्च
नो लोयस्स इत्यादि। लोकस्य-प्राणिगणस्य एषणा अन्वेषणा, इष्टेषु शब्दादिषु प्रवृत्तिः अनिष्टेषु तु हेयबुद्धिः, तां न चरेत्-नाचरेत् न विदध्यात्। यस्य चैषा लोकैषणा नास्ति तस्य अन्याऽपि अप्रशस्ता मति: नास्तीति दर्शयति
जस्स णत्थि इमा णाती अण्णा तस्स कतो सिया ।
जस्स नत्थि इत्यादि। यस्य मुमुक्षोः इमा ज्ञाति:=लोकैषणाबुद्धिः नास्ति इति न विद्यते तस्यान्या सावद्यारम्भप्रवृत्तिः कुतः स्यात् ?, इदमुक्तं भवति- भोगेच्छारूपां लोकैषणां परिजिहीर्षोः नैव सावद्यानुष्ठानप्रवृत्तिः उपजायते, तदर्थत्वात् तस्या इति। यदि वा ईमा अनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः, 'प्राणिनो न हन्तव्याः' इति वा ज्ञातिः यस्य न विद्यते तस्यान्या विवेकिनी बुद्धिः कुमार्गसावद्यानुष्ठानपरिहारद्वारेणः कुतः स्यात् ? । शिष्यमतिस्थैर्यार्थं आह
दिढं सुतं मयं विण्णायं जमेयं परिकहिजति ।।
दिट्ठमित्यादि। यदेतत् मया परिकथ्यते तत् सर्वज्ञैः केवलज्ञानालोकेन दृष्टम्, तत् शुश्रूषुभिः श्रुतम्, लघुकर्मणां भव्यानां मतम्, ज्ञानावरणीयक्षयोपशमाद् विशेषेण ज्ञातंविज्ञातम्, अतो भवताऽपि सम्यक्त्वादिके मत्कथिते यत्नवता भवितव्यमिति। ये पुनः यथोक्तकारिणो न स्युः ते “किम्भूता भवेयुः? इत्याह
समेमाणा पलेमाणा पुणो पुणो जातिं पकप्पेंती।
समेमाणा इत्यादि। तस्मिन्नेव मनुष्यादिजन्मनि शाम्यन्तः गाद्धर्येन अत्यर्थमासेवां कुर्वन्तः, तथा प्रलीयमानाः मनोज्ञेन्द्रियार्थेषु, पौन:पुण्येन एकेन्द्रिय-द्वीन्द्रियादिकां जातिं प्रकल्पयन्ति, संसाराविच्छित्तिं विदधतीत्यर्थः। यदि एवं अविदितवेद्याः साम्प्रतक्षिणो यथाजन्मकृतरतय इन्द्रियार्थेषु प्रलीयमाना: पौन:पुण्येनं कृतजन्मादिसन्धाना जन्तव: ततः किं कर्त्तव्यम्? इत्याह
टि० १. च च॥ २. चरेत् न विदध्यात् क ख ङ ।। ३. इयं ग॥ ४. ज्ञाति: इति पाठः खप्रतेरेव।। ५. ०परिहारेण घ। ६.०ज्ञानावलोकेन क विना ।। ७. भाव्यमिति ख च॥ ८. कथं भवेयुः क। कथम्भूता भवेयुः ख च विना ।। ९. गायँ तात्पर्यमासेवां ग-चप्रती विना॥ १०. प्रलीना: ग च विना ॥ ११. ० न जन्मादिकृतसन्धाना ख च ऋते ॥
वि०टि भोगेच्छार्थत्वात् सावधानुष्ठानप्रवृत्तेः इति भावः॥
३३१