________________
[श्रु०१। अ०४ । उ०१ । सू०१३३]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
मित्रादिजनितः, तत्र रताः= संयोगरताः, तद्विपर्ययेण एकत्वभावनाभाविता असंयोगरताः,
तेष्विति ॥१३२॥
[सू०]
तच्चं चेतं तहा चेतं, अस्सिं चेतं पवुच्चति ।
तदेवं उभयरूपेषु अपि यद् भगवता धर्मदेशना अकारि तत् तथ्यं = सत्यं एतदिति, चशब्दः नियमार्थः, तथ्यमेव एतद् भगवद्वचनम् । यथाप्ररूपितवस्तुसद्भावात् तथ्या भवतीति अतो वाच्यमपि तथैवेति दर्शयति- तथा चैतद् वस्तु यथा भगवान् जगाद, यथा— सर्वे प्राणा न हन्तव्या इत्यादि; एवं सम्यग्दर्शनश्रद्धानं विधेयम् । एतच्च अस्मिन्नेव मौनीन्द्रप्रवचने सम्यग्मोक्षमार्गविधायिनि समस्तदम्भप्रपञ्चोपरते प्रकर्षेण उच्यते = प्रोच्यत इति, न तु यथा अन्यत्र “न हिंस्यात् सर्वभूतानि” [ ]इति अभिधाय अन्यत्र वाक्ये यज्ञपशुवधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति । तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद् विधेयं तद् दर्शयति
आइतु णणिहे, ण णिक्खिवे, जाणित्तु धम्मं जहा तहा ।
तं आइत्तु न निहे इत्यादि । तत्-तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं आदाय=गृहीत्वा तत्कार्याऽकरणतः न नि त्ति न गोपयेत् । तथाविधसंसर्गादिनिमित्तोत्थापितमिथ्यात्वोऽ जीवसामर्थ्यगुणाद् न त्यजेदपि । यथा वा शैव-शाक्यादीनां गृहीत्वा व्रतानि पुनरपि व्रतेश्वरयागादिविधिना गुरुसमीपे निक्षिप्य उत्प्रव्रजनं एवं गुर्वादेः सकाशाद् अवाप्य सम्यग्दर्शनं न निक्षिपेत्=न त्यजेत्। किं कृत्वा ? यथा तथा अवस्थितं धर्मं ज्ञात्वा = श्रुतधर्मचारित्रात्मकमवगम्य, वस्तूनां वा धर्मं = स्वभावमवबुध्य इति । तदवगमे तु किं चापरं कुर्यात् ? इत्याह
दिट्ठेहिं णिव्वेयं गच्छेजा ।
णो लोगस्सेसणं चरे ।
दिट्ठेहिं इत्यादि। दृष्टैः इष्टा ऽनिष्टरूपैः निर्वेदं गच्छेत्, विरागं कुर्यादित्यर्थः । तथा हि— शब्दैः श्रुतैः रसैः आस्वादितैः गन्धैः आघ्रातैः स्पर्शैः स्पृष्टैः सद्भिरेवं भावयेद् यथा
टि० १. ०भावित्वाद् असंयोग० च ॥ २. यथास्थितवस्तु० क ॥। ३. तस्मिन्नेव मौनीन्द्रे प्रवचने ख॥ ४. समस्तदण्डप्रपञ्चोपरते आचा० शु० ॥ ५. ० प्रबन्धोपरते घ ङ च ।। ६. दर्शयितुमाह ख ग घ ङ । ७. ०श्रद्धानं सम्य० ख ॥। ८. ० निमित्तोपस्थापित० ख ।। ९. व्रतेश्वरयागादि० आचा०शु० ॥
३३०