SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ सर्वतीर्थकराभिमताऽहिंसा [श्रु०१ । अ०४ । उ०१ । नि०२२८] =जन्तुदुःखपरिच्छेत्तृभिः प्रवेदितः = प्रतिपादित इति । एतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैयार्थं बभाषे । एनमेव सूत्रोक्तमर्थं नियुक्तिकारः सूत्रस्पर्शकेन गाथाद्वयेन दर्शयति नि० ] नि० ] जे जिणवरा अतीता जे संपति जे अणागते काले । सव्वे वि ते अहिंसं वदिंसु वदिहिंति यं वेयेंति ॥२२७॥ छप्पिय जीवनका णोवि णे णो वि आहणावेजा । णो वि य अणुमन्नेज्जा सम्मत्तस्सेस निज्जुत्ती ॥२२८॥ ॥ चतुर्थप्रथमोद्देशकनिर्युक्तिः ॥ जे जिवरा गाहा, छप्पि य जीवनिकाये गाहा । गाथाद्वयमपि कण्ठ्यम्॥२२७-८॥ तीर्थकरोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्तते (इति) तद् यथा इत्यादिना दर्शयति तं जहा - उट्ठिएसु वा इत्यादि । धर्मचरणाय उद्यता उत्थिताः ज्ञान-दर्शनचारित्रोद्योगवन्तः, तद्विपर्ययेण अनुत्थिताः, तेषु निमित्तभूतेषु, तोनुद्दिश्य भगवता सर्ववेदिना त्रिजगत्पतिना धर्मः प्रवेदितः एवं सर्वत्र लगयितव्यम् । यदि वा उत्थिता -ऽनुत्थितेषु द्रव्यतोऽपि निषण्णा-ऽनिषण्णेषु । तत्र एकादशसु गणधरेषु उत्थितेष्वेव वीरवर्धमानस्वामिना धर्मः प्रवेदितः। तथा उपस्थिताः धर्मं शुश्रूषवो जिघृक्षवो वा, तद्विपर्ययेण अनुपस्थिताः,तेष्विति, निमित्तसप्तमी चेयं यथा - चर्मणि द्वीपिनं हन्तीति । ननु च भावोपस्थितेषु 'चिलातिपुत्रादिष्विव धर्मकथा युक्तिमती, अनुपस्थितेषु तु कं गुणं पुष्णाति ? - अनुपस्थितेषु अपि इन्द्रनागादिषु विचित्रत्वात् कर्मपरिणतेः क्षयोपशमापादनाद् गुणवती व इति यत्किञ्चिदेतत्। प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनो-वाक्कायलक्षणः, उपरतो दण्डो येषां ते तथा, तद्विपर्ययेण अनुपरतदण्डाः, तेषु उभयरूपेषु इति । तत्र उपरतदण्डेषु तत्स्थैर्य - गुणान्तराधानार्थं देशना, इतरेषु तु उपरतदण्डत्वार्थमिति । उपधीयते=सङ्गृह्यत इत्युपधिः, द्रव्यतो हिरण्यादिः, भावतो माया, सह उपधिना वर्तन्त सोपधिकाः, तद्विपर्ययेण अनुपधिकाः, तेष्विति। संयोगः=सम्बन्धः पुत्र- कलत्र टि० १. वि क । व छ । २. वदिंति ख। वयंति छ ज झ ञ । वदंति ठ ।। ३.० निकाया छ ज झ ॥। ४. हणइ णो वि याहणां ठ ।। ५. ०त्ती ॥ अ ) ०४ उ०१ ।। ठ ।। ६. तानुपदिश्य ख ॥ ७. द्रव्यतोऽप्यनिषण्णनिषण्णेषु ख ॥। ८. चिलातपुत्रादि० ख ॥ ९. पुत्र - कलत्रादि० क । पुत्र - मित्र - कलत्रादि ० ख ॥ ( ३२९
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy