________________
[श्रु०१। अ०४। उ०१। सू०१३२] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् इदमपि द्रष्टव्यम्- एवमाचचक्षिरे एवमाख्यास्यन्ति। एवं सामान्यतः सदेव-मनुजायां परिषदि अर्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते। एवं प्रकर्षेण संशीत्यपनोदाय अन्तेवासिनो जीवा-ऽजीवा-ऽऽश्रव-संवर-बन्ध-निर्जरा-मोक्षपदार्थान् ज्ञापयन्ति-प्रज्ञापयन्ति। एवं सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः, मिथ्यात्वा-ऽविरति-प्रमाद-कषाय-योगा बन्ध- । हेतवः, स्व-परभावेन सदसती, तत्त्वं सामान्य-विशेषात्मकं इत्यादिना प्रकारेण प्ररूपयन्ति । एकार्थिकानि वैतानीति। किं तद् एवमाचक्षते ? इति दर्शयति यथा
सर्वे प्राणा: सर्व एव पृथिव्यप्-तेजो-वायु-वनस्पतयो द्वि-त्रि-चतुः-पञ्चेन्द्रियाश्च, इन्द्रिय-बलोच्छ्रास-निश्वासा-ऽऽयुष्कलक्षणप्राणधारणात् प्राणाः। तथा सर्वाणि भवन्ति भविष्यन्ति अभूवन्निति च भूतानि चतुर्दशभूतग्रामान्तःपातीनि। एवं सर्व एव जीवन्ति जीविष्यन्ति अजीविषुरिति जीवा: नारक-तिर्यङ्-नरा-ऽमरलक्षणाश्चतुर्गतिकाः। तथा सर्व एव स्वकृतसाता-ऽसातोदयसुख-दुःखभाजः सत्त्वाः। एकार्था वैते शब्दाः, 'तत्त्व-भेद-पर्यायैः प्रतिपादनम्' इति कृत्वेति।
एते च सर्वे अपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्या दण्ड-कशादिभिः, नाज्ञापयितव्याः प्रसह्य अभियोगदानतः, न परिग्राह्या भृत्य-दास-दास्यादिममत्वपरिग्रहतः, न परितापयितव्याः शारीर-मानसपीडोत्पादनतः, नापद्रावयितव्याः प्राणव्यपरोपणतः। ___एस धम्मे सुद्धे णितिए सासए समेच्च लोयं खेतण्णेहिं पवेदिते। तं जहा-उट्ठिएसु वा अणुट्ठिएसु वा, उवट्ठिएसु वा अणुवट्ठिएसु वा,उवरतदंडेसु वा अणुवरतदंडेसु वा, सोवधिएसु वा अणुवहिएसु वा, संजोगरएसु वा असंजोगरएसु वा ॥१३२॥
___ एष: अनन्तरोक्तः धर्म: दुर्गत्यर्गला-सुगतिसोपानदेश्यः। अस्य च प्रधानपुरुषार्थत्वाद् विशेषणं दर्शयति- शुद्धः =पापानुबन्धरहितः, न शाक्य-धिग्जातीयानां इव एकेन्द्रियपञ्चेन्द्रियवधानुमतिकलङ्काङ्कितः। तथा नित्यः-अच्युतिरूपः, पञ्चस्वपि विदेहेषु सदाभवनात्। तथा शाश्वतः शाश्वतगतिहेतुत्वात्, यदि वा नित्यत्वात् शाश्वतः, न तु नित्यं भूत्वा न भवति भव्यत्ववत्, अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति। -
अमुं च लोकंजन्तुलोकं दुःखसागरावगाढं समेत्य-ज्ञात्वा तदुत्तरणाय खेदज्ञैः
टि० १. ० स्वभाषया भाषन्ते ख॥ २. ०ऽऽश्रव-संवर-निर्जरा-बन्ध-मोक्ष० ख । ०ऽऽश्रव-बन्धसंवर-निर्जरा० च ऋते ।। ३. ०पीडोत्पादनैः, ख। ४. अप्रच्युतरूपः क ॥ ५. अभव्यत्ववत् ङ॥
वि०टि०* म तु इति कूटस्थनित्यतां निराचष्टे, नित्यमपि सोऽपि न नित्यः" जै०वि०प०॥
३२८