________________
सर्वे जीवा न हन्तव्याः [श्रु०१। अ०४। उ०१। सू०१३२] से बेमीत्यादि सूत्रम्। गौतमस्वाम्याह यथा- सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति। यदि वा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह- येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि, नापरः। यदि वा सेशब्दः तच्छब्दार्थे, यत् श्रद्धाने सम्यक्त्वं भवति तदहं तत्त्वं ब्रवीमि। ये अतीता:=अतिक्रान्ता., ये च प्रत्युत्पन्नाः =वर्तमानकालभाविनः, ये चागामिनस्त एवं प्ररूपयन्तीति सम्बनः ।
तत्र अतिक्रान्ताः तीर्थकृतः कालस्य अनादित्वाद् अनन्ता अतिक्रान्ताः। अनागता अप्यनन्ताः आगमिष्यत्कालस्य अनन्तत्वात् तेषां सर्वदैव भावादिति। वर्तमानतीर्थकृतां च प्रज्ञापकापेक्षया अनवस्थितत्वे सत्यपि उत्कृष्ट-जघन्यपदिन एव कथ्यन्ते। तत्र उत्कृष्टतः समयक्षेत्रसम्भविनः सप्तत्युत्तरशतम्, तच्चैवम्- पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वाद् एकैकस्मिन् द्वात्रिंशद् द्वात्रिंशत्, पञ्चस्वपि भरतेषु पञ्च, एवमैरावतेष्वपीति। तत्र द्वात्रिंशत् पञ्चभि: गुणिता षष्ट्युत्तरशतम्, भरतैरावतदशप्रक्षेपेण सप्तत्यधिकं शतमिति। जघन्यतस्तु विंशतिः सा चैवम्- पञ्चस्वपि 'विदेहेषु विदेहान्तर्महानद्युभयतटसद्भावात् तीर्थकृतां प्रत्येकं चत्वारः, ते च पञ्चभिर्गुणिता विंशतिः, भरतैरावतयो: त्वेकान्तसुखमादौ अभाव एवेति। अन्ये तु व्याचक्षते- मेरोः पूर्वा-ऽपरेविदेहैकैकसद्भावाद् महाविदेहे द्वावेव, ततः पञ्चस्वपि दशैवेति, तथा च ते आहुः
“सत्तरसयमुक्कोसं इतरे दस समयखेत्तजिणमाणं।
चोत्तीस पढमदीवे अणंतरऽद्धे य ते दूणा॥" [ ] के इमे ?- अर्हन्त: अर्हन्ति पूजा-सत्कारादिकमिति, तथा ऐश्वर्याधुपेता भगवन्त: । ते सर्व एव परप्रश्नावसरे एवमाचक्षते यदुत्तरत्र वक्ष्यते। वर्तमाननिर्देशस्य उपलक्षणार्थत्वाद्
__ टि० १.सूत्रम् । सोऽहं ख ॥ २. तीर्थङ्कर० ग॥ ३.०शिक्षाभिमत० च ॥ ४. ०त्वादियत्तामतिक्रान्ता: ख ग च॥ ५. आगामिकालस्या० कप्रतिमृते॥ ६. दिति। वर्तमानस्य च प्रज्ञापकापेक्षयाऽनवस्थितत्वे ख॥ ७. तत्रोत्सर्गतः खपुस्तकं विना॥ ८. ०ता जाता षष्ट्यु० ख॥ ९. महाविदेहेषु कप्रतेविना ॥ १०. तेऽपि पञ्चभि० खप्रतिमृते॥ ११. ०विदेहयोरेकैक० ग॥ १२. ततः इति पाठः ग-घप्रत्योरेव॥ १३. सत्तरिसय० ख ॥ १४. दूण त्ति ख च । दुगुणा घ ङ॥ १५. ०णार्थमिदमेवमाचचक्षिरे त एवमाख्यास्यन्ति ख ॥
वि०टि० * “अणंतरद्धे य त(ते) दूणा इति जम्बूद्वीपापेक्षया अनन्तरः धातु(त)कीखण्डः, अर्धं च पुष्करवरद्वीपार्धम्, तयोर्द्वयोरपि प्रथमद्वीपापेक्षया द्विगुणा भवन्ति, द्विगुणा भवन्ति, द्वयोरपि मिलिता १३६, प्रथमद्वीपप्रक्षेपे च १७०" ०वि०प० ।।
३२७