SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०४। उ०१। नि०२२६] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् सा उत्तरोत्तरेषां असङ्ख्येयगुणा, उत्तरोत्तरप्रवर्धमानाध्यवसायकण्डकोपपत्तेरिति। कालस्तु तद्विपरीतो अयोगिकेवलिन आरभ्य प्रतिलोमतया असङ्ख्येयगुणया श्रेण्या 'नेयः। इदमुक्तं भवति- योवता कालेन यावत्कर्म अयोगिकेवली क्षपयति तावन्मानं कर्म सयोगिकेवली सङ्ख्येयगुणेन कालेन क्षपयति एवं प्रतिलोमतया यावद् धर्मं पिपृच्छिषुः तावन् नेयमिति गाथाद्वयार्थः॥२२४-२२५॥ एवमनन्तरोक्तया नीत्या दर्शनवतः सफलानि तपो-ज्ञान-चरणानि अभिहितानि। यदि पुनः केनचिदुपाधिना विदधाति ततः सफलत्वाभावः। कश्चासौ उपाधिः? तमाहनि०] आहार-उवहि-पूया-इड्डीसु य गारवेसु कइतवियं। एमेव बारसविधे तवम्मि न हु केइतवे समणो॥२२६॥ आहार० गाहा। आहारश्च उपधिश्च पूजा च ऋद्धिश्च आमर्पोषध्यादिका=आहारोपधिपूजर्द्धयः,तासु निमित्तभूतासु ज्ञान-चरणक्रियां करोति। तथा गारवेषु त्रिषु प्रतिबद्धो यत् करोति तत् कृत्रिममिति उच्यते। यथा च ज्ञान-चरणयोः आहाराद्यर्थमनुष्ठानं कृत्रिमं सन्न फलवद् भवति; एवं सबाह्या-ऽभ्यन्तरे द्वादशप्रकारे तपस्यपीति। न च कृत्रिमानुष्ठायिनः श्रमणभावः, न च अश्रमणस्य अनुष्ठानं गुणवदिति ॥२२६॥ तदेवं निरुपाधेः दर्शनवत: तपो-ज्ञान-चरणानि सफलानीति स्थितम्, अतो दर्शने यतितव्यम्। दर्शनं च तत्त्वार्थश्रद्धानम्। तत्त्वं च उत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानैः तीर्थकृद्भिः यदभाषि तदेव सूत्रानुगमायातेन सूत्रेण दर्शयतिसू०] से बेमि- जे य अतीता जे य पडुप्पण्णा जे य आगमिस्सा अरहंता भगवंता ते सव्वे एवमाइक्खंति, एवं भासंति, एवं पण्णवेंति, एवं परूवेंति- सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अज्जावेतव्वा, ण परिघेत्तव्वा,ण परितावेयव्वा,ण उद्दवेयव्वा। टि० १. ज्ञेयः घ ङ च ।। २. यावन्मात्रकालानु (म)योगिके वली गुणश्रेणी रचयति ततः सङ्ख्येयगुणकालां सयो(गि)केवली रचयतीति एवं प्रतिलोमतया ख। यावत्कालेन घ ङ च॥ ३. आहारइटि-पूआ-उवहीसु य ख ठ॥ ४.कतितवियं ख। कयतवियं ॥५. कतितवे ख ज । केयवं ञ॥६. ०नं तन्न फलवद्भवति ख॥ ७. निरुपाधिदर्शन ० ग च ॥ वि०टि० * “यदि पुन: इति दर्शनवानपि सन्” जै०वि०प० ।। ३२६
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy