________________
सम्यग्दर्शनादीनां गुणाः
नि०] सम्मत्तप्पत्ती सावते य विरए अणंतकम्मंसे । दंसणमोहक्खमए उवसामंते य उवसंते॥२२४॥
[श्रु०१ । अ०४ । उ०१ । नि०२२५ ]
नि० ] खवगे य खीणमोहे जिणे य सेढी भवे असंखेज्जा । तव्विवरीतो कालो संखेज्जगुणाए सेढीए ॥ २२५ ।।
६
सम्मत्तप्पत्ती गाहा, खवए य गाहा । सम्यक्त्वस्य उत्पत्तिः = सम्यक्त्वोपत्तिः, तस्यां विवक्षितायां असङ्ख्येयगुणा श्रेणिः भवेद् इति उत्तरगाथार्धान्ते क्रियामपेक्ष्य सम्बन्धो लगयितव्यः। कथमसङ्ख्येयगुणा श्रेणिर्भवेदिति ? अत्रोच्यते- इह मिथ्यादृष्टयो देशोनकोटीकोटिकर्मस्थितिका ग्रन्थिकसत्त्वाः ते कर्मनिर्जरामाश्रित्य तुल्याः, धर्मप्रच्छनोत्पन्नसेञ्ज्ञः तेभ्यो असङ्ख्येयगुणनिर्जरकः, ततो पिपृच्छिषुः सन् साधुसमीपं जिगमिषुः, तस्मादपि क्रियाविष्टः पृच्छन्, "अतोऽपि धर्मं प्रतिपित्सुः अस्मादपि क्रियाविष्टः प्रतिपद्यमानः, तस्मादपि पूर्वप्रतिपन्नो असङ्ख्येयगुणनिर्जरकः इति सम्यक्त्वोत्पत्तिः व्याख्याता। तदनन्तरं विरताविरतिं प्रतिपित्सु-प्रतिपद्यमान-पूर्वप्रतिपन्नानां उत्तरोत्तरस्य असङ्ख्येयगुंणा निर्जरा योज्या । एवं सर्वविरतावपीति । ततोऽपि पूर्वप्रतिपन्नसर्वविरतेः सकाशात् अणंतकम्मंसे त्ति पदैकदेशे पदप्रयोग इति यथा भीमसेनो भीमः, सत्यभामा भामा एवं अनन्तशब्दोपलक्षिता अनन्तानुबन्धिनः, ते हि मोहनीयस्य अंशाः भागाः, तांश्चिक्षुपयिषुः असङ्ख्येयगुणनिर्जरकः, ततोऽपि क्षपकः, तस्मादपि क्षीणानन्तानुबन्धिकषायः, एतदेव दर्शनमोहनीयत्रये अभिमुख- क्रियारूढा - उपवर्गत्रयमायोज्यम्, ततोऽपि क्षीणसप्तकात् क्षीणसप्तक एव उपशमश्रेण्यारूढः असङ्ख्येयगुणनिर्जरकः, ततोऽपि उपशान्तमोहः, तस्मादपि चारित्रमोहनीयक्षपकः, ततोऽपि क्षीणमोहः, अत्र चाभिमुखादित्रयं यथासम्भवमायोजनीयम्, अस्मादपि जिनः=भवस्थकेवली, तस्मादपि शैलेश्यवस्थो असङ्ख्येयगुणनिर्जरकः।
१३
तदेवं कर्मनिर्जरायैअसङ्ख्येयलोकाकाशप्रदेशप्रमाणनिष्पादितसंयमस्थानप्रचयोपात्तश्रेणिः
टि० १. asiतकम्मंसे क ठ॥ २. ०क्खवमो ञ । ३. ०गुणश्रेणि० ख ॥। ४. ०स्थितिकाश्च ग्रन्थिक० च ।। ५. ०सञ्ज्ञास्तेभ्योऽसङ्ख्येयगुणनिर्जरकाः, ततोऽपि पिपृच्छिषुः क खपुस्तके विना ॥ ६. स साधु० ग ॥ ७. ततोऽपि ग च ।। ८. ०कत्वोत्पत्तिव्याख्या ख। ० क्त्वोत्पत्ति (त्ते ? ) र्व्याख्या ग ।। ९. ०गुणनिर्जरा ख ग ङ च ॥ १०. भीमो भीमसेनः, सत्या सत्यभामा एव० ख ॥। ११. तदेव ङ ॥ १२. ०गुणो निर्जरकः ङ॥ १३. ० लोकाकाशप्रमाणप्रतिपादितसंयम० ख ॥
वि०टि० - * अपवर्ग इति समाप्तिः " जै०वि०प० ॥
३२५