________________
[श्रु०१। अ०४। उ०१। नि०२२१] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् चक्षुर्दर्शनसद-ऽसद्भावेन शब्दवेधित्वावष्टम्भात् परबलोपस्थाने सति राजा युद्धाय आदेशं याचितः। तेनापि याच्यमानेन वितेरे। वीरसेनेन च शब्दानुवेधितया परानीके जजृम्भे। परैः चावगतकुमारान्धभावैः मूकतामालम्ब्य असौ जगृहे। सूरसेनेन च विदितवृतान्तेन राजानमापृच्छ्य निशितशरशतजालावष्टब्धपरानीकेन मोचितः।
तदेवं अभ्यस्तविज्ञान-क्रियोऽपि चक्षुर्विकलत्वाद् नालं अभिप्रेतकार्यसिद्धये इति। एतदेव नियुक्तिकारो गाथया उपसंहर्तुमाहनि०] कुणमाणो वि य किरियं परिच्चयंतो वि सयण-धण-भोए।
दितो वि दुहस्स उरं ण जिणइ अंधो पराणीयं ॥२२१॥
कुणमाणो गाहा। कुर्वन्नपि क्रियां परित्यजन्नपि स्वजन-धन-भोगान् दददपि दुःखस्य उरः न जयत्यन्ध: परानीकमिति गाथार्थः ॥२२१॥
तदेवं दृष्टान्तमपदर्श्य दार्टान्तिकमाहनि०] कुणमाणो वि णिवित्तिं परिच्चयंतो वि सयण-धण-भोए।
५दिन्तो वि दुहस्स उरं मिच्छट्ठिी ण सिज्झइ ॥२२२॥
कुणमाणो गाहा। कुर्वन्नपि निवृत्तिं अन्यदर्शनाभिहिताम्, तद्यथा-'पञ्च यमाः पञ्च नियमाः' इत्यादिकां तथा परित्यजन्नपि स्वजन-धन-भोगान् पञ्चाग्नितपआदिना दददपि दुःखस्य उरः, मिथ्यादृष्टि: न सिध्यति। तुः अवधारणे, नैव सिध्यति, दर्शनविकलत्वाद् अन्धकुमारवदसमर्थः कार्यसिद्धये।।२२२।। यत एवं ततः किं कर्तव्यम्? इत्याहनि०] तम्हा कम्माणीयं जेउमणो दंसणम्मि पयएज्जा ।
दसणवतो हि सफलाणि होति तव-णाण-चरणाणि ॥२२३॥
तम्हा गाहा। यस्मात् सिद्धिमार्गमूलास्पदसम्यग्दर्शनमन्तरेण न कर्मक्षयः स्यात् तस्मात् कारणात् कर्मानीकं जेतुमनाः सम्यग्दर्शने प्रयतेत। तस्मिंश्च सति यद् भवति तद् दर्शयति- दर्शनवतो हि, हिः हेतौ, यस्मात् सम्यग्दर्शनिनः सफलानि भवन्ति तपो-ज्ञानचरणानि, अत: तत्र यत्नवता भाव्यमिति गाथार्थः ॥२२३॥ प्रकारान्तरेणापि सम्यग्दर्शनस्य तत्पूर्वकाणां च गुणस्थानकानां गुणमाविर्भावयितुमाह
टि० १. ०चक्षुर्दर्शनासद्भावेन ग॥ २. शब्दवेधितया ख॥ ३. दंतो ख झ॥ ४. णियत्तिं क-अप्रती विना ।। ५. देंतो छ ज। दंतो झ ञ॥ ६. हु ख छ ज ठ॥ ७. चरणाणि ञ ऋते॥ ८. सम्यग्दर्शनेन सफलानि क।। ९. सम्यक्त्व स्य ख॥
३२४