SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ त्रिविधं भावसम्यग् [श्रु०१। अ०४। उ०१। नि०२२०] भावसम्यक्प्रतिपादनायाहनि०] तिविहं तु भावसम्म दंसण नाणे तहा चरित्ते य। दंसण-चरणे तिविहे नाणे दुविहं तु नायव्वं ॥२२०॥ तिविहं गाहा। त्रिविधं भावसम्यग् दर्शन-ज्ञान-चारित्रभेदात्। पुनरपि एकैकं भेदत आचष्टे- तत्र दर्शन-चरणे प्रत्येकं त्रिविधे, तद्यथा- अनादिमिथ्यादृष्टे: अकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्मदेशोनसागरोपमकोटीकोटिस्थितिकस्य अपूर्वकरणभिन्नग्रन्थेः मिथ्यात्वानुदयलक्षणं अन्तरकरणं विधाय अनिवृत्तिकरणेन प्रथम सम्यक्त्वमुत्पादयत: औपशमिकं दर्शनम्, उक्तं च “ऊसरदेसं दहेल्लयं वि विज्झाइ वणदवो पप्प। इय मिच्छत्ताणुदये उवसमसम्मं लहइ जीवो॥" । विशेषाव०२७३४,बृ०क०भा०१२२] उपशमश्रेण्यां वौपशमिकमिति १। तथा सम्यक्त्वपुद्गलोपष्टम्भजनिताध्यवसायः क्षायोपशमिकम् २। दर्शनमोहनीयक्षयात् क्षायिकम् ३। ___ चारित्रमपि उपशमश्रेण्यां औपशमिकम् १, कषायक्षयोपशमात् क्षायोपशमिकम् २, चारित्रमोहनीयक्षयात् क्षायिकम् ३। ज्ञाने तु भावसम्यग् द्विधा ज्ञातव्यम्, तद्यथा- क्षायोपशमिकं क्षायिकं च । तत्र चतुर्विधज्ञानावरणीयक्षयोपशमाद् मत्यादि चतुर्विधं क्षायोपशमिकं ज्ञानम्। समस्तक्षयात् क्षायिकं केवलज्ञानमिति॥२२०॥ तदेवं त्रिविधेऽपि भावसम्यक्त्वे दर्शिते सति परः चोदयति- यद्येवं त्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यक्त्ववादो रूढो यद् इहाध्ययने व्यावर्ण्यते?, उच्यतेतद्भावभावित्वाद् इतरयोः, तथा हि- मिथ्यादृष्टेः ते न स्तः। अत्र च सम्यक्त्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयेन बाला-ऽङ्गनाद्यवबोधार्थं दृष्टान्तमाचक्षते, तद्यथा उदयसेनस्य राज्ञो वीरसेन-सूरसेनकुमारद्वयम्। तत्र वीरसेनोऽन्धः। स च तत्प्रायोग्या: गान्धर्वादिकाः कला ग्राहितः। इतरस्तु अभ्यस्तधनुर्वेदो लोकश्लाघ्या पदवीमगमत्। एतच्च समाकर्ण्य वीरसेनेनापि राजा विज्ञप्तो यथा- 'अहमपि धनुर्वेदाभ्यासं विदधे' । राज्ञाऽपि तदाग्रहं अवगम्य अनुज्ञातः। ततोऽसौ सम्यगुपाध्यायोपदेशात् प्रज्ञातिशयाद् अभ्यासविशेषाच्च शब्दवेधी सञ्जज्ञे। तेन च आरूढयौवनेन स्वभ्यस्तधनुर्वेदविज्ञानक्रियेण अगणित टि० १. नास्तीयमुत्थानिका गप्रतौ ॥ २. तिविहं ख छ झ ठ। तिविहं दुविहं णाणे उ नायव्वं ञ॥ ३. कर्मणो देशोन० ग च।। ४. व्व ग। च घ ङ च॥ ५. क्षायिकमिति ३ ख ङ॥ ६. उदयवर्मणो राज्ञो ग॥ ३२३
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy