________________
[श्रु०१। अ०४। उ०१। नि०२१८ ] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति। तस्मात् चशब्दः हेतौ, यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं तस्माद् ज्ञान-दर्शन-तपश्चरणेषु मुमुक्षुणा यतितव्यं तत्प्रतिपालनाय यावज्जीवं यत्नो विधेय इति गाथाद्वयार्थः ।।२१६-२१७।।
अधुना नामनिष्पन्ननिक्षेपायातस्य सम्यक्त्वाभिधानस्य निक्षेपं चिकीर्षुराहनि०] नामं ठवणा सम्मं दव्वसम्मं च भावसम्मं च।
एसो खलु सम्मस्सा निक्खेवो चउव्विहो होइ॥२१८॥
नाम गाहा। अक्षरार्थः सुगमः ।।२१८॥ भावार्थः तु सुगमनाम-स्थापनाव्युदासेन द्रव्य-भावगतं नियुक्तिकारः प्रतिपिपादयिषुराहनि०] अह देव्वसम्म इच्छाणुलोमियं तेसु तेसु दव्वेसुं ।
कय संखय संजुत्ती पउत्त जढ भिन्न छिण्णं च ॥२१९॥
अह दव्व० गाहा। अथ इति आनन्तर्ये, ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यसम्यक्त्वं इत्याह- ऐच्छानुलोमिकम्, इच्छा-चेतःप्रवृत्तिः अभिप्रायः, तस्यानुलोमम् = अनुकूलम्, तत्र भवम् ऐच्छानुलोमिकम्। तच्च तेषु तेषु इच्छाभावानुकूल्यताभाक्षु द्रव्येषु कृताधुपादिभेदेन सप्तधा भवति, तद्यथा
कृतम् अपूर्वमेव निर्वर्तितं रथादि, तस्य च यथाऽवयवलक्षणनिष्पत्तेः द्रव्यसम्यक्, कर्तुः तन्निमित्तचित्तस्वास्थ्योत्पत्तेः; यदर्थं वा कृतं तस्य शोभना-ऽऽशुकरणतया समाधानहेतुत्वाद् वा द्रव्यसम्यक् १। एवं संस्कृतेऽपि योज्यम्, तस्यैव रथादेः भग्न-जीर्णाऽपोढापरावयवसंस्करणादिति २। तथा ययोः द्रव्ययोः संयोगो गुणान्तराधानाय नोपमर्दाय उपभोक्तुः वा मनःप्रीतये पयःशर्करयोरिव तत् संयुक्तद्रव्यसम्यक् ३। तथा यत् प्रयुक्तं द्रव्यं लाभहेतुत्वाद् आत्मनः समाधानाय प्रभवति तत् प्रयुक्तद्रव्यसम्यक्, पाठान्तरं वा ‘उवउत्त' त्ति, यत् उपयुक्तम् अभ्यवहृतं द्रव्यं मनःसमाधानाय प्रभवति तद् उपयुक्तद्रव्यसम्यक् ४। तथा जढं-परित्यक्तं यद् भारादि तत् त्यक्तद्रव्यसम्यक् ५। तथा दधिभाजनादि भिन्नं सत् काकादिसमाधानोत्पत्तेः भिन्नद्रव्यसम्यक् ६। तथा अधिकमांसादिच्छेदात् च्छिन्नद्रव्यसम्यक् ७। सर्वमप्येतत् समाधानकारणत्वाद् द्रव्यसम्यक्, विपर्ययादसम्यगिति गाथार्थः ।।२१९॥
टि० १. दव्वसम्ममिच्छा० ञ ठ ॥ २. संजुत्तोपउत्त कप्रतिमृते॥ ३. वा ख छ ज ठ ॥ ४. तत्र तेषु इच्छाविशेषभाक्षु ख॥ ५. तेषु इच्छानुकूल्य० ग॥ ६. कृतस्तस्य ख ग॥ ७. ०च्छेदे च्छिन्न० ख॥ ८. समाधानकारित्वाद् ग॥
वि०टि० * संजुत्तोपउत्त' शीपा० ॥
३२२