________________
॥ चतुर्थमध्ययनं सम्यक्त्वम्॥ ॥ प्रथम उद्देशकः ॥
तथा
उक्तं तृतीयमध्ययनम् । साम्प्रतं चतुर्थमारभ्यते । अस्य च अयमभिसम्बन्धः - इह शस्त्रपरिज्ञायां अन्वय- व्यतिरेकाभ्यां षड्जीवनिकायान् व्युत्पादयता जीवा - ऽजीवपदार्थद्वयं व्युदपादि, तद्वधे बन्धं विरतिं च भणता आश्रव-संवरपदार्थ द्वयमूचे, लोकविजयाध्ययने लोको यथा बध्यते येथा च मुच्यते इति वदता बन्ध-निर्जरे गदिते, शीतोष्णीयाध्ययने तु शीतोष्णरूपाः परीषहाः सोढव्या इति भणता तत्फललक्षणो मोक्षो अभिहितः, ततः च अध्ययनत्रयेण सप्तपदार्थात्मकं तत्त्वमभिहितम्, तत्त्वार्थश्रद्धानं च सम्यक्त्वमुच्यते, तदधुना प्रतिपाद्यते । तदनेन सम्बन्धेन आयातस्य अस्य अध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्य उपक्रमे अर्थाधिकारो द्वेधा । तत्र अध्ययनार्थाधिकारः सम्यक्त्वाख्यः शस्त्रपरिज्ञायां प्रागेवाभाणि । उद्देशकार्थाधिकारप्रतिपादनाय तु निर्युक्तिकारः
आह
[नि० ] पढमे सम्मावाओ बितिए धम्मप्पवादियपरिक्खा ।
ततिए अणवज्जतवो न हु बालतवेण मोक्खो त्ति ।।२१६ ।। [नि०] उद्देसे र्पु चउत्थे समासवयणेण नियमणं भणियं । तम्हा य नाण - दंसण - तव चरणे होति जतियव्वं ॥ २१७॥
पढमे इत्यादि गाथा, उद्देसम्मि गाहा । प्रथमोद्देशके सम्यग्वाद इति अयमर्थाधिकारः, सम्यग्–अविपरीतो वादः =सम्यग्वादः यथावस्थितवस्त्वाविर्भावनम् । द्वितीये तु धर्मप्रवादिकपरीक्षा, धर्म प्रवदितुं शीलं येषां ते= धर्मप्रवादिनः, त एव धर्मप्रवादिकाः, धर्मप्रावादुका इत्यर्थः, तेषां परीक्षा = युक्ताऽयुक्तविचारणमिति । तृतीये अनवद्यतपोव्यावर्णनम्, न च बालतपसा=अज्ञानतपश्चरणेन मोक्ष इति अयमर्थाधिकारः ।
चतुर्थोद्देशके तु समासवचनेन = सङ्क्षेपवचनेन नियमनं भणितं = संयम उक्त इति । तदेवं प्रथमोद्देशके सम्यग्दर्शनमुक्तम्, द्वितीये तु सम्यग्ज्ञानम्, तृतीये बालतपोव्युदासेन
टि० १. व्युत्पादितम्, तद्वधे च ॥ २. यद्वा मुच्यते क ॥। ३. तु ख ॥। ४. अनेन ख विना ।। ५. उद्देसम्मि चउत्थे क-छप्रती विना ॥। ६. य छ । ७. पढमे गाहा ख च ॥ ८. अज्ञानितप० ख ऋते ।। ९. तृतीयेऽज्ञानितपो ख
च ॥
वि०टि० * दृश्यतां आचा०नि०३३ ॥
३२१