________________
आश्रव-संवरनिरूपणम् [श्रु०१। अ० ४। उ०२। सू०१३४] =आभिमुख्येन सम्यक् परिच्छिद्य, चशब्दः भिन्नक्रमः, पृथक् प्रवेदितं चाभिसमेत्य पृथगाश्रवोपादानं निर्जरोपादानं चेति। एतच्च ज्ञात्वा को नाम धर्मचरणं प्रति नोद्यच्छेदिति ?। कथं प्रवेदितम्? इति चेत्, तदुच्यते
आश्रवस्तावत्- ज्ञानप्रत्यनीकतया ज्ञाननिह्नवेन ज्ञानान्तरायेण ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादेन ज्ञानावरणीयं कर्म बध्यते। एवं दर्शनप्रत्यनीकतया यावद् दर्शनविसंवादेन दर्शनावरणीयं कर्म बध्यते। तथा प्राणिनामनुकम्पनतया भूतानुकम्पनतया जीवानुकम्पनतया सत्त्वानुकम्पनतया बहूनां प्राणिनां अदुःखोत्पादनतया अशोचनतया अजूरणतया अपीडनतया अपरितापनतया सातावेदनीयं कर्म बध्यते, एतद्विपर्ययात् च असातावेदनीयमिति। तथा अनन्तानुबन्ध्युत्कटतया तीव्रदर्शनमोहनीयतया प्रबलचारित्रमोहनीयसद्भावाद् मोहनीयं कर्म बध्यते। महारम्भतया महापरिग्रहतया पञ्चेन्द्रियवधात् कुणपाहारेण नरकायुष्कं बध्यते, मायावितया अनृतवादेन कूटतुला-कूटमानव्यवहारात् तिर्यगायुर्बध्यते, प्रकृतिविनीततया सानुक्रोशतया अमात्सर्याद् मनुष्यायुष्कम्, सरागसंयमेन देशविरत्या बालतपसा अकामनिर्जरया देवायुष्कमिति। कायर्जुतया भावर्जुतया भाषर्जुतया अविसंवादनयोगेन शुभनाम बध्यते, विपर्ययाच्च विपर्यय इति। जाति-कुल-बल-रूप-तपःश्रुत-लाभैश्वर्यमदाभावाद् उच्चैर्गोत्रम्, जात्यादिमदात् परपरिवादाच्च नीचैर्गोत्रम्। दान-लाभभोगोपभोग-वीर्यान्तरायविधानाद् आन्तरायिकं कर्म बध्यते। एते हि आश्रवाः। साम्प्रतं परिश्रवाः प्रतिपाद्यन्ते
अनशनादि सबाह्या-ऽभ्यन्तरं तप इत्यादि । एवमाश्रवका निर्जरकाः सभेदा जन्तवो वाच्याः, सर्वेऽपि च जीवादयः पदार्था मोक्षावसाना वाच्याः। एतानि च पदानि सम्बुध्यमानैः तीर्थकर-गणधरैः लोकं अभिसमेत्य पृथक् पृथक् प्रवेदितम्। अन्योऽपि तदाज्ञानुसारी चतुर्दशपूर्वविदादिः सत्त्वहिताय परेभ्य आवेदयति इत्येतद् दर्शयितुमाह
आघाइ इत्यादि। ज्ञानं सकलपदार्थाविर्भावकं विद्यते यस्य असौ ज्ञानी, स आख्याति= आचष्टे, इह इति प्रवचने, केषां ? मानवानाम्, सर्वसंवरचारित्रार्हत्वात् तेषाम्, अथवोपलक्षणं चैतद् देवादीनाम्। तत्रापि केवल्यादिव्युदासाय विशेषणमाह
___संसार० इत्यादि। संसारं-चतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः; तत्रापि ये धर्म भोत्स्यन्ते ग्रहीष्यन्ते च मुनिसुव्रतस्वामिघोटकदृष्टान्तेन तेषामेव आख्याति इत्येतद् दर्शयतिसम्बुध्यमानानां यथोपदिष्टं धर्म सम्यगवबुध्यमानानाम्; छद्मस्थेन तु अज्ञातबुध्यमानेतर
टि० १. ज्ञान्याशातनया ख॥ २. ०या सत्त्वानुकम्पनतया जीवानुकम्पनत्वेन बहूनां ख॥ ३. ० 2 कम्पनत्वेन बहूनां ग घ ङ च॥ ४. अपिण्डनतया ख ॥ ५. कुणपाहाराद् ख । कुणिमाहारेण ग घ॥ ६. अमात्सर्यतया मानुष्यायुष्कम् ख।। ७. ०माश्रवनिर्जरका: ख घ ङ च ॥ ८. सर्वहिताय ख॥ ९. केवलादि० ख॥
३३५