________________
[श्रु०१। अ०४। उ०२।सू०१३४] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् विशेषेण यादृग्भूतानां कथयितव्यं तान् सूत्रेणैव दर्शयति-विज्ञानप्राप्तानां हिताऽहितप्राप्तिपरिहाराध्यवसायो-विज्ञानम्, तत् प्राप्ता: विज्ञानप्राप्ताः, समस्तपर्याप्तिभिः पर्याप्ताः सचिन इत्यर्थः।
नार्गाजुनीयास्तु पठन्ति- आघाइ धम्म खलु से जीवाणं, तं जहा- संसारपडिवन्नाणं मणुस्सभवत्थाणं आरंभविणईणं दुक्खुव्वेय-सुहेसगाणं धम्मसवणगवेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणं विन्नाणपत्ताणं ।।
एतच्च प्रायो गतार्थमेव, नवरं आरम्भविनयिनाम् इति आरम्भविनयः = आरम्भाभावः, स विद्यते येषामिति मत्वर्थीयः, तेषामिति।
यथा च ज्ञानी धर्ममाचष्टे तथा दर्शयतिअट्टा वि संता अदुवा पमत्ता।
अट्टा वि इत्यादि। विज्ञानप्राप्ता धर्मं कथ्यमानं कुतश्चिन्निमित्ताद् आर्ता अपि सन्तः चिलातिपुत्रादय इव, अथवा प्रमत्ताः विषयाभिष्वङ्गादिना शालिभद्रादय इव, तथाविधकर्मक्षयोपशमापत्तेः यथा प्रतिपद्यन्ते तथा आचष्टे। यदि वा आर्ता:=दुःखिनः, प्रमत्ताः= सुखिनः, तेऽपि प्रतिपद्यन्ते धर्मं, किं पुनरपरे ?। अथवा आर्ताः राग-द्वेषोदयेन, प्रमत्ताः विषयैः, ते च तीर्थका गृहस्था वा संसारकान्तारं विशन्तः कथभवन्तो विज्ञातज्ञेयानां करुणास्पदानि राग-द्वेष-विषयाभिलाषोन्मूलनाय न प्रभवन्ति। एतच्च अन्यथा - मा मंस्था 'इति दर्शयितुमाह
अहासच्चमिणं ति बेमि।
णाऽणागमो मच्चुमुहस्स अत्थि। अहासच्चमित्यादि । इदं यद् मया कथितं कथ्यमानं च तद् यथासत्यं, यथातथ्यं इत्यर्थः। इति एतदहं ब्रवीमि यथा- दुर्लभमवाप्य सम्यक्त्वं चारित्रपरिणामं वा प्रमादो न कार्यः। स्यात्- किमालम्ब्य प्रमादो न कार्यः? तदाह
नाऽणागमो इत्यादि। न हि अनागमो मृत्योः मुखस्य कस्यचिद् अपि संसारोदरवर्तिनो अस्तीति । उक्तं च
“वदत यदीह कश्चिदनुसन्ततसुखपरिभोगलालितः,
टि० १. अघाइ ख ॥ २. स ख ॥ ३. दुक्खखय० ग च॥ ४. भवन्तां विज्ञात० क ख विना।। ५. करुणास्पदानां ग च॥ ६. इत्यादि दर्शयितु० घ ङ॥ ७. इदं मया यत् कथितं ख॥ ८. नाणागमे ख च॥
३३६