________________
इच्छाप्रणीतानामपायाः [श्रु०१। अ०४। उ०२। सू०१३४] प्रयतनशतपरोऽपि विगतव्यथमायुरवाप्तवान् नरः। न खलु नरः सुरौघसिद्धासुरकिन्नरनायकोऽपि यः,
सोऽपि कृतान्तदन्तकुलिशाक्रमणक्रशितो न नश्यति॥" [ तथोपायोऽपि मृत्युमुखप्रतिषेधस्य न कश्चिद् अस्तीति । उक्तं च
"नश्यति नौति याति वितनोति करोति रसायनक्रियाम्, चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः। तपति तपांसि खादति मितानि करोति च मन्त्रसाधनम्,
तदपि कृतान्तदन्तयन्त्रक्रक्रचक्रमणैर्विदार्यते॥" [ ये पुनर्विषय-कषायाभिष्वङ्गात् प्रमत्ता धर्मं नावबुध्यन्ते ते किम्भूता भवन्ति? इत्याह
इच्छापणीता वंकाणिकेया कालग्गहीता णिचये णिविट्ठा पुढो पुढो जाई पकप्पेंति ॥१३४॥ ___ इच्छा० इत्यादि। इन्द्रिय-मनोविषयानुकूला प्रवृत्तिः इह इच्छा, तया विषयाभिमुखं अभिकर्मबन्धं संसाराभिमुखं वा प्रकर्षेण नीता:=इच्छाप्रणीताः, ये चैवम्भूताः ते वंकानिकेताः वङ्कस्य-असंयमस्य आ-मर्यादया संयमावधिभूतया निकेतभूताःआश्रया:=वङ्कानिकेताः, वको वा निकेतो येषां ते वङ्कनिकेताः, पूर्वपदस्य दीर्घत्वम्; ये चैवम्भूताः ते कालगृहीताः कालेन- मृत्युना गृहीताः=कालगृहीताः, पौनःपुण्यमरणभाज इत्यर्थः, धर्मचरणाय वा गृहीतः अभिसन्धितः कालो यैः ते कालगृहीताः, आहिताग्निदर्शनाद् आर्षत्वाद्वा निष्ठान्तस्य परनिपातः, तथा हि- पाश्चात्ये वयसि परुत्परारि वा अपत्यपरिणयनोत्तरकालं वा धर्मं करिष्याम इत्येवं गृहीतकालाः। ये चैवम्भूताः ते 'निचये निविष्टाः' निचये कर्मनिचये तदुपादाने वा सावद्यारम्भनिचये निविष्टाः =अध्युपपन्नाः।
ये च इच्छाप्रणीता वङ्कानिकेताः कालगृहीता निचये निविष्टाः ते तद्धर्माणः किमपरं कुर्वन्ति? इति दर्शयितुमाह- पुढो पुढो इत्यादि। पृथक् पृथक् एकेन्द्रिय-द्वीन्द्रियादिकां जातिं अनेकशः प्रकल्पयन्ति= प्रकुर्वन्ति।
पाठान्तरं वा- ‘एत्थ मोहे पुणो पुणो'। अत्र-अस्मिन् इच्छाप्रणीतादिके
टि० १.प्रयत्नशत० ग च॥ २.०मनोऽनुकूला ख॥ ३.निकेताः आश्रया क॥ ४.वङ्कानिकेताः ख घ च॥ ५.०द्वीन्द्रिय-त्रीन्द्रियादिकां ख॥ ६.पठ्यते च-एत्थ ख च॥
३३७