________________
[श्रु०१। अ०४। उ०२। सू०१३५] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् हृषीकानुकूले मोहे कर्मरूपे वा मोहे निमग्नाः पुनः पुनः तत् कुर्वन्ति येन तदप्रच्युतिः स्यात् ॥१३४॥
तदप्रच्युतौ च किं स्यात् ? इत्याहसू०] इहमेगेसिं तत्थ तत्थ संथवो भवति।
अहोववातिए फासे पडिसंवेदयंति।
इहमेगेसिमित्यादि। इह-अस्मिन् चतुर्दशरज्ज्वात्मके लोके एकेषां मिथ्यात्वाऽविरति-प्रमाद-कषायवतां तत्र तत्र नरक-तिर्यग्गत्यादिषु यातनास्थानकेषु संस्तव:=परिचयो भूयो भूयो गमनाद् भवति। ततः किम् ? इत्याह
अहोववाइए इत्यादि। त एवमिच्छया प्रणीतत्वाद् इन्द्रियवशगाः तद्वशत्वात् तदनुकूलमाचरन्तो नरकादियातनास्थानजातसंस्तवाः तीर्थिका अपि औद्देशिकादि निर्दोषमाचक्षाणाः अधऔपपातिकान् नरकादिभवान् स्पर्शान्-दुःखानुभवान् प्रतिसंवेदयन्ति =अनुभवन्ति । तथा हि- लोकायतिका ब्रुवते
"पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते।
न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम्॥"[ ] वैशेषिका अपि सावद्ययोगारम्भिणः, तथा हि ते भाषन्ते
"अभिषेचनोपवास-ब्रह्मचर्य-गुरुकुलवास-वानप्रस्थ-यज्ञ-दान-मोक्षण-दिग्-नक्षत्रमन्त्र-काल-नियमाः" [ ] इत्यादि।
___अन्ये अपि सावद्ययोगानुष्ठायिनः अनया एव दिशा वाच्याः। स्यात्-किं सर्वोऽपि इच्छाप्रणीतादिः यावत् तत्र तत्र कृतसंस्तवो अधऔपपातिकान् स्पर्शान् प्रतिसंवेदयति आहोस्वित् कश्चिदेव तद्योग्यकर्मकारी एव अनुभवति?; न सर्व इति दर्शयति
चिट्ठे कूरेहिं कम्मेहिं चिटं परिविचिट्ठति।
अचिटुं कूरेहिं कम्मेहिं णो चिट्ट परिविचिट्ठति। चिट्टमित्यादि। चिदृ=भृशमत्यर्थं क्रूरैः वध-बन्धादिभिः कर्मभिः क्रियाभिः ।
टि० १. तद्वशित्वात् कप्रतिमृते॥ २. दुष्टान् भावात्(न्) प्रति० क ॥ ३. च साधु शोभने ! यदतीतं ग ॥ ४. कडेवरम् च ॥ ५. ०यज्ञादान० ग घ च॥ ६. ०मोक्षणादिनक्षत्र० क। मोक्षणा-दिग्-नक्षत्र० ग॥ ७. ०कालविधिज्ञाः इत्यादि ख ।। ८. तत्र तत्कृतसंस्तवो० च॥
वि०टि० । 'मोहे इति शब्दादिके" जै० वि०प०॥
३३८