________________
अन्यतीर्थिकसम्मता हिंसा [श्रु०१।अ०४। उ०२।सू०१३६] चिट्टमिति भृशमत्यर्थमेव विरूपां दशां वैतरणीतरणा-ऽसिपत्रवेनपत्रपाताभिघात-शाल्मलीवृक्षालिङ्गनादिजनितां अनुभवन् तमतमादिस्थानेषु परिवितिष्ठति। यः तु नात्यर्थं हिंसादिभिः कर्मभिः वर्तते सो अत्यन्तवेदनानिचितेष्वपि नरकेषु नोत्पद्यते। स्यात्-क एवं वदन्ति? इत्याहएगे वदंति अदुवा वि णाणी, णाणी वदंति अदुवा वि एगे ॥१३५॥
एगे वयंतीत्यादि। एके-चतुर्दशपूर्वविदादयः वदन्ति-ब्रुवते, अथवाऽपि ज्ञानी वदति ज्ञानं-सकलपदार्थाविर्भावकं अस्य अस्तीति ज्ञानी, स चैतद् ब्रवीति। यद् दिव्यज्ञानी के वली भाषते श्रुतके वलिनोऽपि तदेव भाषन्ते; यच्च श्रुतके वलिनो भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्ति इति एतद् गत-प्रत्यागतसूत्रेण दर्शयति
नाणी इत्यादि। ज्ञानिन: केवलिनो यद् वदन्ति अथवाऽपि एके श्रुतकेवलिनो यद् वदन्ति तद् यथार्थभाषित्वाद् एकमेव, एकेषां सर्वार्थप्रत्यक्षत्वाद् अपरेषां तदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽपि एकवाक्यता इति॥१३५॥ तदाह
सू०] आवंती केआवंती लोयंसि समणा य माहणा य पुढो विवादं वदंति से दिटुं च णे, सुयं च णे, मयं च णे, विण्णायं च णे,उर्दु अहं तिरियं दिसासु सव्वतो सुपडिलेहितं च ण-'सव्वे पाणा सव्वे जीवा सव्वे भूता सव्वे सत्ता हंतव्वा, अजावेतव्वा, परिघेत्तव्वा, परितावेतव्वा, उद्दवेतव्वा। एत्थ वि जाणह णत्थेत्थ दोसो'। अणारियवयणमेयं ॥१३६॥
___ आवंतीत्यादि। आवंतीति यावन्तः, केआवंतीति केचन, लोके मनुष्यलोके, श्रमणा:=पाषण्डिकाः ब्राह्मणाः द्विजातयः पृथक् पृथग् विरुद्धो वादो विवादः, तं वदन्ति। एतदुक्तं भवति- यावन्तः केचन परलोकं ज्ञीप्सवः ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते। तथा हि- भागवता ब्रुवते–'पञ्चविंशतितत्त्वपरिज्ञानाद् मोक्षः, सर्वव्यापी आत्मा निष्क्रियो निर्गुणश्चैतन्यलक्षणः, निर्विशेषं सामान्यं तत्त्वम्' इति। वैशेषिकाः तु भाषन्ते–'द्रव्यादिषट्पदार्थपरिज्ञानाद् मोक्षः, समवायिज्ञानगुणेन इच्छा-प्रयत्नद्वेषादिभिश्च गुणैः गुणवानात्मा, परस्परनिरपेक्षं सामान्य-विशेषात्मकं तत्त्वम्' इति। शाक्याः तु वदन्ति यथा-परलोकपथानुयायी आत्मैव न विद्यते, निःसामान्यं वस्तु क्षणिकं च' इति।
__ टि० १. ०मेवाधिरूपां दशां ख॥२. ०वनपत्राभिघात० ख॥ ३. तमस्तमादि० ग घ॥४. वदति कचप्रती विना॥ ५. इत्यत आह च॥ ६. चैवं ब्रवीति ग॥ ७. श्रुतकेवली भाषते ज्ञानिनोऽपि तदेव ख॥ ८. दर्शनमपवदन्ते तथा हि ख॥ ९. सामान्यतत्त्वम् ख॥ १०. समवायज्ञान० क॥ ११. परलोकानुया० कखपुस्तके ऋते॥
३३९