________________
[श्रु०१ । अ०४ । उ०२ । सू०१३६]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
मीमांसकाः तु मोक्ष - सर्वज्ञाभावेन व्यवस्थिता इति । तथा केषाञ्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्ति। अपरे वनस्पतीनामपि अचेतनतां आहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, तद्भावे वा न तद्बधे बन्धो अल्पबन्धता 'वेति, तथा हिंसायामपि भिन्नवाक्यता, तदुक्तम्
‘“प्राणी प्राणिज्ञानम् घातकचित्तं च तद्गता चेष्टा। प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥" [
]
इत्येवमादिक औद्देशिकपरिभोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्यूह्यः । यदि ब्राह्मण-: - श्रमणा धर्मविरुद्धं वादं यद् वदन्ति तत् सूत्रेणैव दर्शयति
वा
दिट्ठे चणे इत्यादि यावत् णत्थेत्थ दोसो त्ति । से त्ति तच्छब्दार्थे, यदहं वक्ष्ये तद् दृष्टम्=उपलब्धं दिव्यज्ञानेन अस्माभिः अस्माकं वा सम्बन्धिना तीर्थकृता आगमप्रणायकेन, चशब्दः उत्तरापेक्षया समुच्चयार्थः, श्रुतं चाऽस्माभिः गुर्वादेः सकाशात् अस्मद्गुरुशिष्यैः वा तदन्तेवासिभिः, मतम् = अभिमतं युक्तियुक्तत्वाद् अस्माकं अस्मत्तीर्थकराणां वा, विज्ञातं च तत्त्व-भेद - पर्यायैः अस्माभिः अस्मत्तीर्थकरेण वा स्वतः, न परोपदेशदानेन, एतच्च ऊर्ध्वा ऽधस्तिर्यक्षु दशस्वपि दिक्षु सर्वतः सर्वैरपि प्रत्यक्षाSनुमानोपमाना -ऽऽगमा -ऽर्थापत्त्यादिभिः प्रकारैः सुष्ठु प्रत्युपेक्षितं च = पर्यालोचितं च मनः प्रणिधानादिना अस्माभिः अस्मत्तीर्थकरेण वा । किं तत् ? इत्याह
सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याः परिग्रहीतव्याः परितापयितव्या अपद्रापयितव्याः । अत्रापि धर्मचिन्तायामपि एवं जानीथ यथा - नास्त्यत्र यागार्थं देवतोपयाचितकतया वा प्राणिहननादौ दोषः = पापानुबन्ध इति। एवं यावन्तः केचन पाषण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्मविरुद्धं परलोकविरुद्धं वा वादं भाषन्ते । अयं च ' जीवोपमर्दकत्वात् पापानुबन्धी अनार्यप्रणीत इति
। आह च
अणारिय० इत्यादि । आराद् याताः सर्वहेयधर्मेभ्य इति आर्याः, तद्विपर्यासाद् अनार्याः क्रूरकर्माणः, तेषां प्राण्युपघातकारि इदं वचनम् ॥१३६॥
टि० १. सद्भावे वा तद्वधेऽल्पबन्धता चेति ख । सद्भावे वा न च ॥ २. चेति क ॥। ३. प्राणा ग ॥। ४. प्राणज्ञानं ख ॥। ५. ब्राह्मणाः च ।। ६. ०वासिभिर्वा च ॥ ७ ०त्तीर्थकराणां वा ख ।। ८. अपद्रावयितव्याः ख च ॥ ९. पाषण्डिशब्दका ख ॥। १०. जीवोपमर्दकात् ख ॥
वि०टि० " तद्गता घातगता” जै०वि०प० ॥ O “चिन्तायामपि इति न केवलना (मा) रम्भादौ " जै०वि०प० ॥
३४०