Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
सर्वतीर्थकराभिमताऽहिंसा
[श्रु०१ । अ०४ । उ०१ । नि०२२८] =जन्तुदुःखपरिच्छेत्तृभिः प्रवेदितः = प्रतिपादित इति । एतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैयार्थं बभाषे । एनमेव सूत्रोक्तमर्थं नियुक्तिकारः सूत्रस्पर्शकेन गाथाद्वयेन दर्शयति
नि० ]
नि० ]
जे जिणवरा अतीता जे संपति जे अणागते काले । सव्वे वि ते अहिंसं वदिंसु वदिहिंति यं वेयेंति ॥२२७॥ छप्पिय जीवनका णोवि णे णो वि आहणावेजा । णो वि य अणुमन्नेज्जा सम्मत्तस्सेस निज्जुत्ती ॥२२८॥
॥ चतुर्थप्रथमोद्देशकनिर्युक्तिः ॥
जे जिवरा गाहा, छप्पि य जीवनिकाये गाहा । गाथाद्वयमपि कण्ठ्यम्॥२२७-८॥ तीर्थकरोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्तते (इति) तद् यथा इत्यादिना दर्शयति
तं जहा - उट्ठिएसु वा इत्यादि । धर्मचरणाय उद्यता उत्थिताः ज्ञान-दर्शनचारित्रोद्योगवन्तः, तद्विपर्ययेण अनुत्थिताः, तेषु निमित्तभूतेषु, तोनुद्दिश्य भगवता सर्ववेदिना त्रिजगत्पतिना धर्मः प्रवेदितः एवं सर्वत्र लगयितव्यम् । यदि वा उत्थिता -ऽनुत्थितेषु द्रव्यतोऽपि निषण्णा-ऽनिषण्णेषु । तत्र एकादशसु गणधरेषु उत्थितेष्वेव वीरवर्धमानस्वामिना धर्मः प्रवेदितः। तथा उपस्थिताः धर्मं शुश्रूषवो जिघृक्षवो वा, तद्विपर्ययेण अनुपस्थिताः,तेष्विति, निमित्तसप्तमी चेयं यथा - चर्मणि द्वीपिनं हन्तीति । ननु च भावोपस्थितेषु 'चिलातिपुत्रादिष्विव धर्मकथा युक्तिमती, अनुपस्थितेषु तु कं गुणं पुष्णाति ? - अनुपस्थितेषु अपि इन्द्रनागादिषु विचित्रत्वात् कर्मपरिणतेः क्षयोपशमापादनाद् गुणवती व इति यत्किञ्चिदेतत्। प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनो-वाक्कायलक्षणः, उपरतो दण्डो येषां ते तथा, तद्विपर्ययेण अनुपरतदण्डाः, तेषु उभयरूपेषु इति । तत्र उपरतदण्डेषु तत्स्थैर्य - गुणान्तराधानार्थं देशना, इतरेषु तु उपरतदण्डत्वार्थमिति । उपधीयते=सङ्गृह्यत इत्युपधिः, द्रव्यतो हिरण्यादिः, भावतो माया, सह उपधिना वर्तन्त सोपधिकाः, तद्विपर्ययेण अनुपधिकाः, तेष्विति। संयोगः=सम्बन्धः
पुत्र- कलत्र
टि० १. वि क । व छ । २. वदिंति ख। वयंति छ ज झ ञ । वदंति ठ ।। ३.० निकाया छ ज झ ॥। ४. हणइ णो वि याहणां ठ ।। ५. ०त्ती ॥ अ ) ०४ उ०१ ।। ठ ।। ६. तानुपदिश्य ख ॥ ७. द्रव्यतोऽप्यनिषण्णनिषण्णेषु ख ॥। ८. चिलातपुत्रादि० ख ॥ ९. पुत्र - कलत्रादि० क । पुत्र - मित्र - कलत्रादि ० ख ॥
(
३२९

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496