Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 379
________________ सर्वे जीवा न हन्तव्याः [श्रु०१। अ०४। उ०१। सू०१३२] से बेमीत्यादि सूत्रम्। गौतमस्वाम्याह यथा- सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति। यदि वा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह- येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि, नापरः। यदि वा सेशब्दः तच्छब्दार्थे, यत् श्रद्धाने सम्यक्त्वं भवति तदहं तत्त्वं ब्रवीमि। ये अतीता:=अतिक्रान्ता., ये च प्रत्युत्पन्नाः =वर्तमानकालभाविनः, ये चागामिनस्त एवं प्ररूपयन्तीति सम्बनः । तत्र अतिक्रान्ताः तीर्थकृतः कालस्य अनादित्वाद् अनन्ता अतिक्रान्ताः। अनागता अप्यनन्ताः आगमिष्यत्कालस्य अनन्तत्वात् तेषां सर्वदैव भावादिति। वर्तमानतीर्थकृतां च प्रज्ञापकापेक्षया अनवस्थितत्वे सत्यपि उत्कृष्ट-जघन्यपदिन एव कथ्यन्ते। तत्र उत्कृष्टतः समयक्षेत्रसम्भविनः सप्तत्युत्तरशतम्, तच्चैवम्- पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वाद् एकैकस्मिन् द्वात्रिंशद् द्वात्रिंशत्, पञ्चस्वपि भरतेषु पञ्च, एवमैरावतेष्वपीति। तत्र द्वात्रिंशत् पञ्चभि: गुणिता षष्ट्युत्तरशतम्, भरतैरावतदशप्रक्षेपेण सप्तत्यधिकं शतमिति। जघन्यतस्तु विंशतिः सा चैवम्- पञ्चस्वपि 'विदेहेषु विदेहान्तर्महानद्युभयतटसद्भावात् तीर्थकृतां प्रत्येकं चत्वारः, ते च पञ्चभिर्गुणिता विंशतिः, भरतैरावतयो: त्वेकान्तसुखमादौ अभाव एवेति। अन्ये तु व्याचक्षते- मेरोः पूर्वा-ऽपरेविदेहैकैकसद्भावाद् महाविदेहे द्वावेव, ततः पञ्चस्वपि दशैवेति, तथा च ते आहुः “सत्तरसयमुक्कोसं इतरे दस समयखेत्तजिणमाणं। चोत्तीस पढमदीवे अणंतरऽद्धे य ते दूणा॥" [ ] के इमे ?- अर्हन्त: अर्हन्ति पूजा-सत्कारादिकमिति, तथा ऐश्वर्याधुपेता भगवन्त: । ते सर्व एव परप्रश्नावसरे एवमाचक्षते यदुत्तरत्र वक्ष्यते। वर्तमाननिर्देशस्य उपलक्षणार्थत्वाद् __ टि० १.सूत्रम् । सोऽहं ख ॥ २. तीर्थङ्कर० ग॥ ३.०शिक्षाभिमत० च ॥ ४. ०त्वादियत्तामतिक्रान्ता: ख ग च॥ ५. आगामिकालस्या० कप्रतिमृते॥ ६. दिति। वर्तमानस्य च प्रज्ञापकापेक्षयाऽनवस्थितत्वे ख॥ ७. तत्रोत्सर्गतः खपुस्तकं विना॥ ८. ०ता जाता षष्ट्यु० ख॥ ९. महाविदेहेषु कप्रतेविना ॥ १०. तेऽपि पञ्चभि० खप्रतिमृते॥ ११. ०विदेहयोरेकैक० ग॥ १२. ततः इति पाठः ग-घप्रत्योरेव॥ १३. सत्तरिसय० ख ॥ १४. दूण त्ति ख च । दुगुणा घ ङ॥ १५. ०णार्थमिदमेवमाचचक्षिरे त एवमाख्यास्यन्ति ख ॥ वि०टि० * “अणंतरद्धे य त(ते) दूणा इति जम्बूद्वीपापेक्षया अनन्तरः धातु(त)कीखण्डः, अर्धं च पुष्करवरद्वीपार्धम्, तयोर्द्वयोरपि प्रथमद्वीपापेक्षया द्विगुणा भवन्ति, द्विगुणा भवन्ति, द्वयोरपि मिलिता १३६, प्रथमद्वीपप्रक्षेपे च १७०" ०वि०प० ।। ३२७

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496