Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 75
________________ श्रीमन्महेन्द्रसूरिसङ्कलिता श्रीविनयकुशलविरचितवृत्तिसमेता श्रीविचारसप्ततिका प्रस्तावना इदं विचारसप्ततिकाख्यं चिरत्नप्रकरणरत्नं जिनप्रवचनपारावारपारीणैः अञ्चलगच्छापरपर्यायविधिपक्षभट्टारकसुरसूरिभिः श्रीमहेन्द्रसूरिभिः सन्हब्धम्, तच्च “महिंद" इति प्रान्तगाथागतपदावलोकनेन स्फुटमेव विज्ञायते । वृत्तिकारैस्तु-"महेन्द्रसिंहसूरिभिः" इत्युल्लेखितम्, परमेभिरेवाचार्यैर्विनिर्मितान्यप्रकरणेषु महेन्द्रसूरिरित्येवोपलभ्यतेऽतो मयापि तथैव लिखितम्, इत्येतद्विषयस्त्वग्रे स्फुटीभविष्यति । अस्य रचयितारोऽञ्चलगच्छीयश्रीधर्मघोषसूरिविनेयावतंसतां धर्तारो गुणभूरयो महेन्द्रसूरयो विक्रमार्कीयत्रयोदशशताब्द्यामभूवन् । एतेषां धर्मघोषसूरिशिष्यत्वं सत्तासमयश्च मनःस्थिरीकरणप्रकरणआयुःसङ्ग्रह-परिग्रहप्रमाणगतानां क्रमेण "सिरिधम्मसूरिसुगुरूवएसओ सिरिमहिंदसूरीहिं । मणथिरिकरणपयरणं संकलिअं बारचूलसीए ॥१६६॥" "इय धम्मसूरिसुगुरूवएसओ सिरिमहिंदसूरीहिं । कइवयथूलपयाऊ संकलिअं बारचूलसीए ॥८२॥" "सिरिजयसिंहमुणीसरसरवरकमलाण धम्मसूरीण । तच्चरणमहुयराणं महिंदसूरीण पासंमि ॥१८॥ बारसतेयासीए" इत्येतासां सपादत्रयगाथानां निवर्णनेन प्रकटमेवावगम्यते । एतत्प्रकरणप्रणेतृभिरुक्तव्यतिरिक्ता अन्येऽपि ग्रन्थाः कृता भवेयुः, परं कति किंविषयाः? इति नाद्यापि निर्णयपथमवतीर्णम् । प्रकरणस्यास्य के वृत्त्याः प्रणेतार इत्येतद्विषयनिर्णयस्तु

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110