Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 81
________________ श्रीविचारसप्ततिका वृत्तिसमेता एवं सर्वे त्र्यधिका त्रिशती भेदा मनुष्यस्य ॥११॥ अथ देवभेदानाहभवणा परमा जंभय वणयर दस पनर दस य सोलसगं । गइ ठिइ जोइस दसगं किव्विस तिग नव य लोगंता ॥१२॥ कप्पा गेविजणुत्तर बारस नव पण पजत्तमपजत्ता । अडनउअ सयं अभिहयवत्तियमाईहिँ दसगुणिआ ॥१३॥ भवनपतयोऽसुरादयो दश प्रसिद्धाः । तथा परमाधार्मिकाः पञ्चदश असुरनिकायजातीयाः । यथा "अंबे १ अंबरिसी चेव २ सासए ३ सबले विय ४ । रुद्दो ५ वरुद्द ६ काले अ ७ महाकालत्ति ८ आवरे ॥१॥ असिपत्ते ९ धणुं १० कुंभे ११ वालूं १२ वेअरणी १३ तहा । खरस्सरे १४ महाघोसे १५ पन्नरस परमाहम्मिआ ॥२॥" एतेषां नामान्वर्थः समवायाङ्गवृत्त्यादिभ्यो ज्ञेयः । तथा जृम्भका दशधा, यथा "अन्नजृम्भकः १ पानजृम्भकः २ लयनजृम्भकः ३ वसुजृम्भकः । ४ शयनजृम्भकः ५ पुष्पजृम्भकः ६ फलजृम्भकः ७ विद्याविद्याजृम्भकः ८ पुष्पफलजृम्भकः ९ अव्यक्तजृम्भकः १० ॥" एते व्यन्तरजातीया दीर्घवैताढ्यवासिनः । तथा व्यन्तराः षोडश, यथारत्नप्रभायां शतयोजनानन्तरनिवासिनः । के ते?"वंतर पुण अट्टविहा पिसाय १ भूया २ तहा जक्खा ३ । रक्खस ४ किंनर ५ किंपुरिस ६ महोरग ७ अट्ठमा य गंधव्वा ८ ॥१॥" इति । द्वितीयव्यन्तरा दशयोजनान्तरं वसन्ति । यथा"अणपन्नी १ पणपन्नी २ इसिवाइअ ३ भूअवाइए ४ चेव ।

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110