________________
श्रीविचारसप्ततिका वृत्तिसमेता
६७
कंदीअ ५ महाकंदी ६ कोहंडे ७ चेव पयए य ८ ॥१॥" इत्यष्टौ ।
एवं षोडशभेदाः । दशेत्यादीनि पदानि प्रत्येकं योज्यानि । " गइ" इति चन्द्रसूर्यग्रहनक्षत्रतारकालक्षणा: चर ५ स्थिर ५ भेदाज्ज्योतिष्का दश । तथा सौधर्मेशानयोरधस्त्रिपल्यायुषः १ सनत्कुमाराधस्त्रिसागरायुषः २, लान्तकाधस्त्रयोदशसागरायुषः ३, किल्बिषास्त्रयः । तथा लोकान्तिका नव, यथा" सारस्सय १ माइच्चा २ वण्ही ३ वरुणा य ४ गद्दतोया य ५ । सिआ ६ अव्वाबाहा ७ अग्गिच्चा ८ चेव रिट्ठा ९ य ॥ १ ॥ " इत्यादि ॥१२॥
तात्स्थ्यात्तद्व्यपदेशात् कल्पा ग्रैवेयका अनुत्तराः (च) देवाः । एवं द्वादशनवपञ्चभेदैः षड्विशतिः । एते पूर्वोक्तैर्दशपञ्चदशदशषोडशदशत्रिकनवकैर्मिलिता नवनवतिर्भेदा देवानाम् । ग्रन्थान्तरे च
"इंद १ सम २ तायतीसा ३ पारसिया ४ रक्ख ५ लोगपाला य ६ । अणि ७ पइन्न ८ अभिओगा ९ किव्विस १० दस भवणवेमाणी ॥१॥"
इत्यादि देवभेदा अनेके सन्ति, परमेतद्ग्रन्थकर्त्रा नवनवतिरेव विवक्षिताः । ते च पर्याप्तापर्याप्ताभ्यां द्विगुणिता अष्टनवत्यधिकं शतं १९८ भवन्ति । ततः सर्वे चतुर्गतिका जीवाः ५६३ ॥१३॥
'अभिहया' इत्यादिदशपदैर्गुणिता यद्भवति तदाह
अभिहयपयाइ दह गुण पण सहसा छसय तीसई भेआ । तेरा दोसद्गुणा इक्कारस सहस दोसया सट्ठी ॥ १४ ॥ मणवयका गुणिआ तित्तीस सहस्स सत्तसयसीया । करकारणानुमइए लक्खं सहसो तिसय चाला ॥१५॥ कालतिगेणं गुणिआ तिलक्ख चउ सहस वीसमहिआ य । 'अरिहंतसिद्धसाहूदेवयगुरु अप्पसक्खीहिं ॥ १६ ॥
अट्ठारस लक्खाइं चउवीस सहस्स एगवीसहिआ । इरिआमिच्छादुक्कडपमाणमेअं सुए भणियं ॥ १७॥