Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
श्रीविचारसप्ततिका वृत्तिसमेता
सत्तरसय इगवीसा बायालसहस्स' चुलसिसहसुच्चा । चउसय तीसा कोसं सहसं रेसहसं च ओगाढा ॥५५॥
सप्तदशशतान्येकविंशत्यधिकानि मानुषोत्तराचलः उच्चः १ । तथा कुण्डलाचलो द्विचत्वारिंशत्सहस्राण्युच्चः २ । तथा रुचकश्चतुरशीतिसहस्राण्युच्चः ३ । गाथान्त्यार्धेन तेषां भूमाववगाढत्वं निर्दिशति-प्रथमो मानुषोत्तर उच्चत्वचतुर्थांशं पृथिव्यामवगाढो भूमौ प्रविष्ट इत्यर्थः । यथा क्रोशोत्तराणि त्रिंशदधिकानि चतुःशतयोजनानि ४३० क्रोश १ । शेषौ कुण्डलरुचकपर्वतौ योजनानां सहस्रं भूमाववगाढौ स्तः ॥५५॥
अथैतेषां पर्वतानामधोमध्योर्ध्वभागेषु विष्कम्भमानमाहभुवि दससय बावीसा मज्झे सत्त य सया उ तेवीसा । सिहरे चत्तारि सया चउवीसा मणुअकुण्डलगा ॥५६॥
प्रथमपर्वतद्वयस्य विष्कम्भं कथयति 'भुवि' इति समभूभागापेक्षया द्वाविंशत्यधिकं सहस्रं योजनानि १,०२२ विस्तारः । सर्वमध्ये त्रयोविंशत्यधिकानि सप्त शतानि विस्तारः ७२३ । तथा शिखरे इति सर्वोपरितनभागे चत्वारि शतानि चतुर्विंशत्यधिकानीति मानुषोत्तरकुण्डलयोर्विस्तारः ॥५६।।
अथ रुचकस्य त्रिधापि विस्तारमेताभ्यामन्यमेवाहदससहसा बावीसा 'भुवि मज्झे सगसहस्स तेवीसा । सिहरे चउरो सहसा चउवीसा रुअगसेलंमि ॥५७॥
द्वाविंशत्यधिका दश सहस्राः १०,०२२ 'भुवि' इति समभूभागे विस्तारः । सर्वमध्ये सप्त सहस्रास्त्रयोविंशत्यधिकाः ७,०२३ । शिखरे सर्वोपरितनभागे चत्वारः सहस्राश्चतुर्विंशत्यधिका योजनानां ४,०२४ विस्तारो रुचकशैले । एतेन पूर्वोक्तपर्वतद्विकयोः शतस्थानेऽत्र सहस्रमवसेयम् ॥५७।।
अथ पूर्वोक्तद्वितयाभ्यां रुचकपर्वतशिखरे विशेषमाह

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110