Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
श्रीविचारसप्ततिका वृत्तिसमेता यथा यः सम्यक्त्वं लब्ध्वा पुनर्मिथ्यात्वं याति, पुनरपि सम्यक्त्वं प्राप्य मोक्षं गच्छति, श्रीमहावीरादिवदिति चतुर्थो भङ्गः ३ । साधनन्ताभिधस्तृतीयो भङ्गो मिथ्यात्वे नास्ति ॥७३॥
तत्र सादिसान्ताभिधस्तृतीयो भङ्गो मिथ्यात्वे कियत्कालं तिष्ठतीत्याहलहु अंतमुहू गुरुअं देसूणमवड्डपुग्गलपढें । सासाणं लहु समओ आवलिछक्कं च उक्कोसं ॥७४॥
लघु इति सर्वथा जघन्यं तदान्तर्मुहूर्तं तिष्ठति । गुरुकमुत्कृष्टं देशोनमपार्धपुद्गलपरावर्तं यावन्मिथ्यात्वं तिष्ठति १ । तथा सास्वादनं नाम द्वितीयं गुणस्थानं जघन्यं समयः, उत्कृष्टं त्वावलिकाषट्कं यावत्तिष्ठति नाधिकम् २ ॥७४॥
अजहन्नमणुक्कोसं अंतमुहू मीसगं अह चउत्थं । समहिअतित्तीसयरे उक्कोसं अंतमुहु लहुअं ॥५॥
तृतीयं मिश्रगुणस्थानं अजघन्योत्कृष्टमसङ्ख्यातसमयात्मकमेकमन्तर्मुहूर्त तिष्ठति ३ । अथ चतुर्थं गुणस्थानमविरताख्यमुत्कृष्टं समधिकत्रयस्त्रिंशत्सागरोपमस्थितिकम् । भावनात्र मनुष्यायुरधिकसर्वार्थसिद्धविमानस्थित्यपेक्षयाऽवधार्यम्(या) । यत्तु क्षायोपशमिकस्य सम्यक्त्वस्य "साहिअतित्तीसायर खइअं दुगुणं खउवसम्मं" इत्यत्र षट्षष्टिसागराधिकस्थितिरुक्ता, तत् सति सम्यक्त्वेऽपि देशविरत्यादिगुणस्थानान्तरसङ्क्रमणेन भाव्यम् । चतुर्थगुणस्थानकस्य जघन्या स्थितिरन्तर्मुहूर्तप्रमाणा ४ ॥७५॥
देसूणपुव्वकोडी गुरु लहुअंच अंतमुहु देसं । छट्ठाइगारसंता लहु समया अंतमुहु गुरुआ ॥६॥
तथा पञ्चमदेशविरतिगुणस्थानकस्योत्कृष्टा स्थितिरष्टाभिर्वपैयूंना पूर्वकोटिः । कश्चित्पूर्वकोट्यायुरष्टवर्षानन्तरं देशविरतिं प्रतिपद्यते । जघन्या चान्तर्मुहूर्तमाना ५ । तथा षष्ठाद्यानि एकादशान्तानि प्रमत्ता ६ प्रमत्त ७ निवृत्त्य ८ निवृत्ति ९ सूक्ष्मसम्परायो १० पशान्तमोहनामकानि ११ जघन्यतः

Page Navigation
1 ... 104 105 106 107 108 109 110