Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 104
________________ श्रीविचारसप्ततिका वृत्तिसमेता _____ नन्दीश्वरद्वीपे विदिक्षु चत्वार एव रतिकराः सन्ति । तेऽपि चैत्यरहिताः सिद्धायतनवियुक्ताः । प्रवचनसारोद्धारादिग्रन्थमते तु चतसृणां वापीनां अन्तरालेषु द्वौ द्वौ रतिकरौ स्तः । यादृशमेकस्यां दिशि तादृशं शेषासु तिसृषु दिक्षु । सर्वे द्वात्रिंशद्रतिकराः सिद्धायतनसंयुक्ताश्च । अथ चतुर्णा द्वात्रिंशतो वा प्रमाणमेकमेवाह-"दसि" इति दशसहस्रं पृथुलाः, दशसहस्रं विस्तारा वृत्ता एकसहस्रमुच्चाः, सहस्रस्य पादो भूमाववगाढाः, सार्धशतद्वययोजनानि भूमौ प्रविष्टा इत्यर्थः । अध उपरि च दशसहस्रयोजनानां पृथुलत्वेन सर्वत्र समाः । ततो झल्लरिर्वादिविशेषस्तत्तुल्याकारा वृत्ता इत्यर्थः । इति सर्वं स्थानाङ्गसूत्रे प्रोक्तम् ॥६५॥ अथोक्तस्थानादन्येषामूर्ध्वाधोलोकस्थसिद्धायतनानामुच्चत्वादिप्रमाणमाहनंदीसर व्व उढे पन्नासाई य असुरजिणभवणा । तयअद्धं नागाइसु वंतरनगरेसु य तयअद्धं ॥६६॥ नन्दीश्वरचैत्यवत् देवलोकसिद्धायतनानि शतयोजनदीर्घाणि, पञ्चाशद्विस्तीर्णानि, द्वासप्ततिरुच्चानि, परं त्रिद्वाराणि । तथाऽसुरनिकाये जिनभवनानि तदर्धप्रमाणानि ५०-२५-३६ । तथा नागादिषु नवनिकायेषु ततोऽप्यर्धमानानि, यथा-२५-१२॥-१८ । तथा व्यन्तरनगरेषु ततोऽप्यर्धमानानि १२॥-६।-९ । तथा ज्योतिष्केषु तिर्यग्लोकेषु च विविधप्रमाणानि ॥६६॥ इत्युक्तं नन्दीश्वरद्वीपद्वारं दशमम् ॥१०॥ ___अथ गृहिक्रियाद्वारमेकादशम्मन्नह जिणाण आणं मिच्छं परिहरह धरह सम्मत्तं । छव्विहआवसयंमि अ उज्जुत्ता होइ पइदिअहं ॥६७॥ पव्वेसु पोसहवयं दाणं सीलं “तवो अभावो अ। सज्झाय नमुक्कारो परोवयारो अजयणा य ॥६८॥ जिणपूआ४ जिणथुणणं१५ १६गुरुथुइ साहमिआण वच्छलं। ववहारस्स य “सुद्धी रहजत्ता तित्थजत्ता य ॥६९॥

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110