Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
८७
श्रीविचारसप्ततिका वृत्तिसमेता सहस्राण्युच्चा बहिः । एकं योजनसहस्रं भूमाववगाढाः । तथा समभूमौ योजनदशसहस्रविष्कम्भाः । तदनन्तरं च परिहीयमाणा उपर्येकसहस्रविस्तीर्णाः । तेषां परिधिर्मूले एकत्रिंशद्योजनसहस्राणि षट् च शतानि त्रयोविंशत्यधिकानि ३१,६२३ किञ्चिन्न्यूनानि । शिखरे च परिधिस्त्रीणि सहस्राणि द्विषष्ट्यधिकं योजनशतं ३,१६२ । "तेसिं इति" प्राकृतत्वात् पञ्चम्यर्थे षष्ठी, तेभ्यश्चतसृषु दिक्षु ॥६१॥
किमस्ति ? इत्याहलक्खंतरिआ चउ चउ वावी दस दस य जोअणुव्विद्धा । लक्खं दीहपिहुच्चे तम्मज्झे दहिमुहा सोल ॥६२॥
लक्षान्तरिता इति तेभ्योऽञ्जनगिरिभ्यश्चतुर्दिक्षु प्रत्येकं योजनलक्षं गत्वा चतस्रश्चतस्रो वाप्यः सन्ति । तन्नामान्यमूनि-पूर्वदिग्भागी योऽञ्जनगिरिस्तस्मालक्षयोजनानि गत्वा पूर्वस्यां नन्दोत्तरा १, दक्षिणस्यां नन्दा २, अपरस्यामानन्दा ३, उत्तरस्यां नन्दिवर्धना ४ । तथा दक्षिणस्यां योऽञ्जनगिरिस्तस्माच्च पूर्वस्यां भद्रा ५, दक्षिणस्यां विशाला ६, अपरस्यां कुमुदा ७, उत्तरस्यां पुण्डरीकिणी ८ । तथा पश्चिमदिग्भागेऽञ्जनगिरिस्तस्मात्पूर्वस्यां नन्दिषेणा ९, दक्षिणस्याममोघा १०, अपरस्यां गोस्तुभा ११, उत्तरस्यां सुदर्शना १२ । तथोत्तराञ्जनगिरेः पूर्वस्यां विजया १३, दक्षिणस्यां वैजयन्ती १४, अपरस्यां जयन्ती १५, उत्तरस्यां अपराजिता १६ । एताः षोडश वाप्यः प्रत्येकं दशदशयोजनोद्वेधा उण्डा इत्यर्थः । निर्मलशीतलसुस्वादुजलसम्पूर्णाः प्रायो मत्स्यादिजलचररहिताः । दीर्घपृथुत्वाभ्यामिति विष्कम्भायामाभ्यां योजनलक्षप्रमाणा वृत्ता जम्बूद्वीपपरिधियुताः प्रत्येकं चतसृषु दिक्षु वाप्यो नानामणिमयसोपानमणिमयानेकस्तम्भसन्निविष्टैर्विविधशालभञ्जिकाविलासोत्तुङ्गतोरणैर्युक्ताः । तथा पूर्वादिदिक्क्रमेणाशोक १ सप्तच्छद २ चम्पक ३ चूतवनैः ४ प्रत्येकं परिक्षिप्ताः । सर्वाणि चतुःषष्टिवनानि । तासां सर्वासां षोडशानां वापीनां मध्ये बहुमध्यदेशभागे दधिमुखनामानो महीधराः षोडश सन्ति ॥६२॥
ते च दधिमुखाः कीदृशाः ? इत्याह

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110