Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 101
________________ श्रीविचारसप्ततिका वृत्तिसमेता यत्संस्थानं तेन संस्थितः । यथा यवो यवराशिर्वा धान्यानामपान्तराल ऊर्ध्वाधोभागेन च्छिन्नो मध्यभागे छिन्नटङ्क इव भवति, बहिर्भागे तु शनैः शनैः पृथुत्वबुद्ध्या निम्नो निम्नतरः, तद्वदेष शैलोऽपि । पुनः किंलक्षण: ? चतुर्दिक्षु शिखरे पञ्चाशदादिचतुर्जिनगृहः । कोऽर्थः ? पञ्चाशदीर्घाणि पञ्चविंशतियोजनपृथुलानि षट्त्रिंशदुच्चानि चत्वारि शाश्वतानि जिनगृहाणि यत्र स तथा । तथा "सयाइ" इति शतादिचतुश्चैत्यकौ शतयोजनदीर्घाणि पञ्चाशत्पृथुलानि द्वासप्ततियोजनोच्चानि चतुर्दिा प्रत्येकं चत्वारि चैत्यानि यत्र तौ जिनभवनालङ्कृतौ इत्यर्थः । “दुन्नि" इति प्राकृतत्वात् द्वौ कुण्डलरुचकाह्वौ शिखरिणौ स्तः ॥५९॥ व्याख्यातं वलयद्वारं नवमम् ॥ अथ नन्दीश्वरद्वारं दशममाहतेवढे कोडिसयं लक्खा चुलसीइ वलयविक्खंभो। नंदिसरटुमदीवो चउदिसि चउअंजणा मज्झ ॥६०॥ एकं कोटिशतं त्रिषष्टिकोट्यश्चतुरशीतिलक्षाश्च १,६३,८४,००,००० इत्येतावद्योजनप्रमाणवलयविष्कम्भो जम्बूद्वीपादष्टमः सकलसुरासुरविसरानन्दी उदारजिनमन्दिरोद्यानपुष्करिणीपर्वतप्रभृतिपदार्थसार्थसमुद्भूतया विभूत्या चेश्वरः सान्वयनामा नन्दीश्वरद्वीपोऽस्ति । तस्य वलयसर्वमध्यभागे पूर्वादिदिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारोऽञ्जनगिरयः सन्ति । तन्नामानि यथापूर्वस्यां देवरमणाभिधः १, दक्षिणस्यां नित्योद्योतः २, अपरस्यां स्वयंप्रभः ३, उत्तरस्यां रमणीय इति ४ ॥६०॥ अथाञ्जनगिरीणां स्वरूपमाहगोपुच्छा अंजणमय चुलसीसहसुच्च सहसमोगाढा । समभुवि दससहसपिहू सहसुवरि तेसिं चउदिसिसु ॥६१॥ ऊर्वीकृतगोपुच्छसंस्थानसंस्थिताः । यथा धेनोः पुच्छं मूले स्थूलं तदनु लघु लघुतरं, तथैतेऽपि चत्वारोऽञ्जनपर्वता मूले सविस्तरा उपरि च स्तोका इत्यर्थः । सर्वात्मनाऽञ्जनरत्नमयाः । तथा ते चत्वारोऽपि चतुरशीतियोजन

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110