________________
श्रीविचारसप्ततिका वृत्तिसमेता
पश्चिमायामष्टौ कूटानि, यथा"सुत्थिए १ अ सुहए २ हिमवंते ३ मंदरे ४ तहा । रुअगे ५ रुअगुत्तमे अ६ चंदे ७ अट्ठमे अ सुदंसणे ८ ॥५॥" तत्र देव्यो यथा"इलादेवी १ सुरादेवी २ पृथ्वी ३ पद्मावती ४ तथा । एकनाशा ५ नवमिका ६ भद्रा ७ ऽशोका ८ च नामतः ॥६॥" अथोत्तरस्यामष्टौ कूटनि, यथा"रयणे १ रयणुच्चयए २ सव्वरयणे ३ रयणसंचए ४ । विजए ५ वेजअंते ६ अ जयंते ७ अपराजिए ८ ॥७॥" तत्र देव्यो यथा"अलम्बुसा १ मितकेशी २ पुण्डरीका ३ च वारुणी ४ । हासा ५ सर्वप्रभा ६ श्री ७ ही ८ ह्यष्टावुत्तरसंस्थिताः ॥८॥"
तथा-चित्रा १ चित्रकनका २ सुतेजाः ३ सुदामिनी ४ एताश्चतस्रोपि विदिक्कूटनिवासिन्यः । तथा-रूपा १ रूपांशिका २ सुरूपा ३ रूपकावती ४ चेति चतस्रो रुचकमध्यवासिन्यः ॥५८॥
अथैतेषां पर्वतानां पुनर्विशेषमाहपढमो सीहनिसाई अद्धजवनिभो अचउदिसिं सिहरे । पन्नाई चउ जिणगिहो सयाइ चउचेइआ दुन्नि ॥५९॥
प्रथमो मानुषोत्तराभिधः सिंहवन्निषीदतीत्येवंशीलः सिंहनिषादी । यथा सिंहोऽग्रेतनं पादयुग्ममुत्तभ्य पश्चात्तनं पादयुगं सङ्कोच्य पुताभ्यां मनाग् लग्नो निषीदति, तथा निषण्णश्च शिरःप्रदेशे उन्नतः, पश्चाद्भागे तु निम्नो निम्नतरः । एवं मानुषोत्तरोऽपि जम्बूद्वीपदिशि च्छिन्नटङ्कः सर्वोन्नतः समभित्त्याकारः पश्चाद्भागे तूपरितनभागादारभ्य प्रदेशप्रदेशहान्या निम्नो निम्नतरः । अथवाऽर्धयवनिभश्च, अपगतं अर्धं यस्यासौ अपार्धः, स चासौ यवो राशिश्च अपार्धयवराशी, तयोरिव