Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 99
________________ ८४ श्रीविचारसप्ततिका वृत्तिसमेता रुअगे सिहरे चउदिसि बिअसहसेगिगचउत्थअट्ठट्ठ | विदिसिचऊ इअ चत्ता दिसिकुमरी कूड सहसंका ॥ ५८ ॥ वलयाकारस्य रुचकशैलस्य चतुर्विंशत्यधिकचतुः सहस्रविस्तीर्णे शिखरे चत्वारो भागा विधीयन्ते । तत्रैकैकस्मिन् भागे षड्योजनाधिकः सहस्रो भवति। तत्र प्रथमं भागं मुक्त्वा द्वितीये भागे पूर्वादिचतुर्दिक्ष्वेकैकं कूटमस्ति सहस्राङ्कम् । तथा रुचकशैलशिखरस्य षडधिकसहस्रमिते चतुर्थे भागेऽष्टावष्टौ कूटानि सन्ति परं तानि दिक्कुमारीणां सम्बन्धीन्येव ज्ञेयानि । अन्यथा तन्मध्यवर्तिसिद्धकूटयुतानि प्रतिदिशं नव नव कूटानि सन्तीति वृद्धाः । सिद्धकूटे च सिद्धायतनं जिनप्रतिमालङ्कृतम् । तथा तस्मिन्नेव चतुर्थे भागे विदिक्षु चत्वारि कूटानि सन्ति सर्वाणि सहस्राङ्कानि । कोऽर्थः ? एकसहस्रयोजनमूलविस्ताराणि सप्तशतं मध्यविस्ताराणि पञ्चशतं शीर्षविस्ताराणि, एकसहस्रोच्चानि । तेषु सर्वेषु कूटेषु भवनपतिजातीयचत्वारिंशद्दिक्कुमार्यः सपरिवारा वसन्ति । तत्र पूर्वस्यामष्टौ यानि कूटानि तेषां नामानि स्थानाङ्गोक्तान्यमूनि । यथा " रिट्ठ १ तवणिज्ज २ कंचण २ रयदिसा ४ सोत्थिए ५ पलंबे य६ । अंजण ७ अंजणपुलए ८ रुयगस्स पुरच्छिमे कूडा ॥१॥" तेष्वेतन्नाम्यो दिक्कुमार्यो वसन्ति । यथा " नन्दोत्तरा १ तथा नन्दा २ सुनन्दा ३ नन्दिवर्धिनी ४ । विजया ५ वैजयन्ती च ६ जयन्ती ७ चापराजिता ८ ॥२॥" दक्षिणस्यामष्टौ कूानि । यथा " कणए १ कंचण २ पउमे ३ नलिणे ४ ससी ५ दिवायरे ६ । वेसमणे ७ वेरुलिए ८ रुअगस्स य दाहिणे कूडा ॥३॥" तत्रेमा देव्यः "समाहारा १ सुप्रदत्ता २ सुप्रबद्धा ३ यशोधरा । लक्ष्मीवती ५ शेषवती ६ चित्रगुप्ता ७ वसुन्धरा ८ ॥ ४ ॥ "

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110