Book Title: Vichar Saptatika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
श्रीविचारसप्ततिका वृत्तिसमेता अथ कृष्णराजीनां परस्परं स्पर्शनस्वरूपं दर्शयतिपुव्वंतर जम्मबहिं पुट्ठा जम्मंतरा बहिं वरुणं । तम्मज्झुत्तरबाहि उईणमज्झा बहिं पुव्वं ॥५२॥
पौरस्त्याभ्यन्तरा दक्षिणबाह्यां स्पृशति १ । दक्षिणाभ्यन्तरा "बहिं वरुणं" इति पश्चिमबाह्यां स्पृशति २ । “तम्मज्झ" इति तत्पश्चिमाभ्यन्तरा उत्तरबाह्यां स्पृशति ३ । "उईणमज्झा" इति उत्तराभ्यन्तरा पूर्वबाह्यां स्पृशति ४ ॥५२॥
अथैतासां कोणविभागानाहपुव्वावरा छलंसा तंसा पुण दाहिणुत्तरा बज्झा। अब्भंतर चउरंसा सव्वाविअ कण्हराईओ ॥५३॥
पौरस्त्यपाश्चात्ये द्वे बाह्ये कृष्णराज्यौ (षडझे षट्कोणे । दक्षिणोत्तरे द्वे बाह्ये) त्र्यो त्रिकोणे । अभ्यन्तराश्चतस्रोऽपि कृष्णराज्यश्चतुरस्राश्चतुष्कोणा इत्यर्थः ॥५३॥ व्याख्यातं कृष्णराजिद्वारमष्टमम् ॥८॥
साम्प्रतं वलयद्वारं नवममाह- . पुक्खरिगारस तेरेव कुंडले रुअगि तेर ठारे वा । मंडलिआचलतिन्निउ मणुउत्तर कुंडलो रुअगो ॥५४॥
कालोदसमुद्राबहिर्वलयाकारः षोडशलक्षयोजनविस्तीर्णः पुष्करवरद्वीपोऽस्ति, तस्यापि (धै) बाह्ये दले प्रथमः १ । तथा जम्बूद्वीपादेकादशो मतान्तरेण त्रयोदशो वा कुण्डलद्वीपोऽस्ति, तस्यार्धे द्वितीयः २ । तथा "जम्बूधायइपुक्खर" इति संग्रहणीदर्शितक्रमप्रमाणेन त्रयोदशो मतान्तरेणाष्टादशो वा (रुचकद्वीपोऽस्ति) तत्र तृतीयः ३ । एवं मण्डलाचला वलयाकारपर्वतास्त्रयः पुष्करकुण्डलरुचकद्वीपेषु अर्धार्धभागेषु च प्राकाराकाराः सन्ति । तेषां नामानि च मानुषोत्तरः कुण्डलो रुचक इति ॥५४॥
गाथाप्रथमानैतेषामुच्चत्वमाह

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110