SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीविचारसप्ततिका वृत्तिसमेता अथ कृष्णराजीनां परस्परं स्पर्शनस्वरूपं दर्शयतिपुव्वंतर जम्मबहिं पुट्ठा जम्मंतरा बहिं वरुणं । तम्मज्झुत्तरबाहि उईणमज्झा बहिं पुव्वं ॥५२॥ पौरस्त्याभ्यन्तरा दक्षिणबाह्यां स्पृशति १ । दक्षिणाभ्यन्तरा "बहिं वरुणं" इति पश्चिमबाह्यां स्पृशति २ । “तम्मज्झ" इति तत्पश्चिमाभ्यन्तरा उत्तरबाह्यां स्पृशति ३ । "उईणमज्झा" इति उत्तराभ्यन्तरा पूर्वबाह्यां स्पृशति ४ ॥५२॥ अथैतासां कोणविभागानाहपुव्वावरा छलंसा तंसा पुण दाहिणुत्तरा बज्झा। अब्भंतर चउरंसा सव्वाविअ कण्हराईओ ॥५३॥ पौरस्त्यपाश्चात्ये द्वे बाह्ये कृष्णराज्यौ (षडझे षट्कोणे । दक्षिणोत्तरे द्वे बाह्ये) त्र्यो त्रिकोणे । अभ्यन्तराश्चतस्रोऽपि कृष्णराज्यश्चतुरस्राश्चतुष्कोणा इत्यर्थः ॥५३॥ व्याख्यातं कृष्णराजिद्वारमष्टमम् ॥८॥ साम्प्रतं वलयद्वारं नवममाह- . पुक्खरिगारस तेरेव कुंडले रुअगि तेर ठारे वा । मंडलिआचलतिन्निउ मणुउत्तर कुंडलो रुअगो ॥५४॥ कालोदसमुद्राबहिर्वलयाकारः षोडशलक्षयोजनविस्तीर्णः पुष्करवरद्वीपोऽस्ति, तस्यापि (धै) बाह्ये दले प्रथमः १ । तथा जम्बूद्वीपादेकादशो मतान्तरेण त्रयोदशो वा कुण्डलद्वीपोऽस्ति, तस्यार्धे द्वितीयः २ । तथा "जम्बूधायइपुक्खर" इति संग्रहणीदर्शितक्रमप्रमाणेन त्रयोदशो मतान्तरेणाष्टादशो वा (रुचकद्वीपोऽस्ति) तत्र तृतीयः ३ । एवं मण्डलाचला वलयाकारपर्वतास्त्रयः पुष्करकुण्डलरुचकद्वीपेषु अर्धार्धभागेषु च प्राकाराकाराः सन्ति । तेषां नामानि च मानुषोत्तरः कुण्डलो रुचक इति ॥५४॥ गाथाप्रथमानैतेषामुच्चत्वमाह
SR No.023431
Book TitleVichar Saptatika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages110
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy